Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
३४६
काव्यादर्शनामसंकेतसमेतः [१० द० उल्लासः ] . यत्र तु नात्वेऽपि लिवचनयोः सामान्याभिधायि पदं स्वरूपभेदं नापद्यते न तत्रैतषणावतारः, उभयथाप्यस्यानुगमक्षमस्वभाववत्वात । यथा-- गुणैर धैः प्रथितो रत्नैरिव महार्णवः । ५९१।। तद्वेषोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः । दधते स्म परां शोभां तदीया विभ्रमा इत्र ॥५९२।।
"इति कालपुरुषविध्यादिभेदेऽपि न तथा प्रतीतिरस्खलितरूपतया विश्रान्तिमासादयतीत्यसावपि भग्नेपक्रमतयैव व्याप्तः । यथा
अतिथि नाम काकुत्स्थात्पुत्रमाप कुमुद्वती। पश्चिमाद्यामिनीयामात्मसादमिव चेतना ॥८९३॥ अत्र चेतना प्रसादमानोति न पुनरापेति कालभेदः। प्रत्यग्रमज्जनविशेषविविक्तमूर्तिः
कौमुम्भरागरुचिरस्फुरदंशुकान्ता । विभ्राजसे मकरकेतनमर्चयन्ती
बालप्रवालविटपप्रभवा लतेच ॥५९४॥ अत्र लता विभ्राजते न तु विभ्राजस इति संबोध्यमाननिष्ठस्य परंभावस्यासंबोध्यमानविषयतया व्यत्यासात्पुरुषभेदः । यत्र विति ॥
'असहश' इति टगन्तत्वाद् एकवचनान्तं. किबन्तत्वाद् बहुवचनान्तं च । 'मधुरतया भृतो धृतः मधुरतां बिभ्रतीति च'। 'दधते' इति एकवचन- 20 बहुवचनाभ्याम् । अत्र लिङ्गवचनभेदेऽपि साधारणधर्माभिधायीनि पदानि न स्वरूपेण भियन्त इति न भग्नप्रक्रमदोषः॥ यथा वा - 'चन्द्रमिव सुन्दरं मुखं पश्यति' इत्यादौ । यत्रापि गम्यमानं साधारणधर्माभिधायिपदं तत्रापि न दोषः, यथा-' चन्द्र इव मुखं, कमलमिव पाणिः, विम्बफलमिवाधरः' इत्यादौ ।। न तथेति । तद्विदां प्रसिद्धेन प्रकारेण ॥
25 'मज्जन स्नानं ब्रुडनं च । स्फुरन्नंशुकस्य अन्तो यस्याः, स्फुरद्भिरंशुभिश्च कान्ता । मकरकेतनः कामः समुद्रश्च ' ॥ संबोध्यमानेति । नायिका वासवदत्तात्र संबोध्यमाना तन्निष्ठस्य मध्यमपुरुषस्य असंबोध्यमानलताविषयतया विपर्ययः । युष्मदर्थश्च संबोधनार्थः॥
.
15

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374