Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
१०] ३० उल्लासः ] काव्यप्रकाशः ।
गङ्गेव प्रवहतु ते सदैव कीतिः ॥५९५॥ इत्यादौ च गङ्गा प्रवहति न तु प्रवहतु इति अप्रवृत्तप्रवर्तनात्मनो विधेः । एवंजातीयकस्य चान्यस्यार्थस्योपमानगतस्यासंभवाद्विध्यादिभेदः ।
ननु समानमुच्चरितं प्रतीयमानं वा धर्मान्तरमुपादाय पर्यव- 5 सितायामुपमायामुपमेयस्य प्रकृतधर्माभिसंबन्धान कश्चन कालादिभेदोऽस्ति । यत्राप्युपात्तेनैव सामान्यधर्मेणोपी गम्यते यथायुधिष्ठिर इवाय सत्यं वदतीति-तत्र युधिष्ठिर इव सत्यवादी सत्यं वदाति प्रतिपत्स्यामहे । सत्यवादी सत्यं वदतीति चन पौनरुक्त्यमाशङ्कनीयं, रैपोष" पुष्णातीतिवद्युधिष्ठिर- 10 सत्यवदनेने सत्यवाधयमित्यर्थावगमात् । सत्यमेवैतत् । किंतु स्थितेषु प्रयोगेषु समर्थनमिदं न तु सर्वथा निरवचं, प्रस्तुतैवस्तुप्रतीसिव्याघातादिति सचेतस एवात्र प्रमाणम् । - असादृश्यासंभवावप्युपमायामनुचितार्थतायामेव पर्यवस्यतः । यथा
15 नामि काव्यशशिनं विततार्थरश्मिम् ॥५९६॥ अत्र काव्यस्य शशिनार्थानां च रश्मिभिः साधर्म्य कुत्रापि विधेरिति उपमानविधेर्भेदो, नहि गङ्गाया अमवृत्तायाः प्रवृत्तिर्विधीयते यथा कोतिः ।। अन्यस्येति । विधिजातीयस्य निमन्त्रणादेरपि उपमानेऽसंभवः ॥
• ननु, समाने त्यतोऽर्थावगमाद्' इत्यन्तं पूर्वपक्षः ॥ उच्चरितमिति शब्दतः 20 प्रादुर्भूत, यथा 'प्रत्यग्रे'त्यत्र विविक्तमूर्तित्वादिति ॥ प्रतीयमानंमिति अनुक्तमपि गम्यमानम् । यथा ' राम इवायं राजा' इत्यादौ गम्यमानधर्मेण उपमानिर्वाहानन्तरं 'भाती'त्यादिना उपात्तेन धर्मेण संबन्धे ।। धर्मान्तरमिति । आप्त्यादिलक्षणात कालादिभेदावभासकाद् धर्माद् अन्यता ॥ प्रकृतेति । प्रकृतो धर्मः कालादिभेदावभासक आपेत्यादिकः ।। सामान्यधर्मेणेति, कालादिभेदावभासकेन ॥ युधिष्ठिरो 25 ह्यवदत् । अयं तु वदति 'इति व्यक्तः किल कालभेद इत्याह - 'सत्यवाद्ययम् ' इति । सत्यवादित्वधर्मस्य प्रतीयमानस्य उपादानेन उपमापतिपत्तिर्भविष्यति, ततः 'सत्यं वदति' इत्येतद् उपमेये एव योजयिष्यते; तत उपमानानिर्वाहानन्तरं 'सत्यं वदति' इत्युपादीयमानेन धर्मेण संबन्ध इति न कालभेदः स्यादिति भावः॥

Page Navigation
1 ... 367 368 369 370 371 372 373 374