Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 359
________________ [ १० ६० उल्लासः ] काव्यप्रकाशः अत्रानुप्रासो रूपकं चान्योन्यानपेक्षे । संसर्गश्च तयोरेकत्र वाक्ये छन्दसि वा समवेतत्वात् । अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु संकरः । एतै एव तु यत्रात्मन्यनासादितस्वतन्त्र भावाः परस्परमनुग्राह्माग्राहकतां दधति स एषां संकीर्यमाणस्वरूपत्वात्- संकरः । उदाहरणम् आते सीमन्तंचिहे मरकतिनि हृते हेमता पत्रे लुप्तायां मेखलायां झटिति मणितुलाकोटियुग्मे गृहीते । शोणं बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये राजन्गुञ्जाफलानां त्रज इति शबरा नैव हारं हरन्ति ॥ ५७१ || अत्र तद्गुणमपेक्ष्य भ्रान्तिमता प्रादुर्भूतम्, तदाश्रयेण च तद्गुणः सचेतसां चमत्कृतिनिमित्तमित्येतयोरङ्गाङ्गिभावः । यथा वा जटाभाभिर्भाभिः करधृत कलङ्काक्षवलयो वियोगिव्यापत्तेरिव कलितवैराग्यविशदः । परिमेतारापरिकरकपालाङ्किततले शशी भस्मापाण्डुः पितृवन इव व्योम्न्नि चरति ॥५७२ ॥ 5 10 6 ' जटाभाभिः' इति । करा रश्मयः, करः पाणिश्च । वैराग्यं लौहित्यविगमो विषयवैतृष्ण्यं च ' । अत्र उपमा । 'कलङ्काक्षवलयः' इति रूपकम् । 'व्यापत्तेवि' इति उत्प्रेक्षा । 'कलितवैराग्ये' इति श्लेषः । ' तारापरिरकपाळ ' इत्यत्र रूपकम् |' अङ्किततले ' इति तु साधारणो धर्मों रूपकहेतुः । ' भस्मनेव पाण्डुः , ४३ 15 रूपकं चेति । आरोप्यमाणरूपेण आरोपविषयस्य आरोपवतः क्रियमाणत्वात् ॥ एकत्र वाक्य इति । अनेन शब्दालंकारनिर्देशपरामर्शः || छन्दसीत्यनेन तु अर्थालंकारोन्मेषः ।। १३५- १३६ ।। [६१ ॥ ] 20 er क्षीरनीरन्यायेन मिश्रत्वे उपकार्योपकारकत्वेन संदेहेन एकवाचकानुप्रवेशेन च त्रिविधं संकरमाह - अविश्रान्तिजुषामिति, न विश्रान्तिजुषाम् ॥ तुला कोटिं पुरम् ।। तद्गुणमिति । ' शोणं बिम्बोष्ठकान्त्या 'इति तद्गुणोऽलंकारः । ' गुञ्जाफलानां स्रजः' इति वाक्ये भ्रान्तिमान् ॥ तदाश्रयेणेति, भ्रान्तिमदाश्रयेण || , 25

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374