Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 357
________________ [ १० ६० उल्लासः ] काव्यप्रकाशः । अत्रीतिरक्तेनापि मनसा संयुक्तो न रक्ततामुपगत इस्यतद्गुणः । किं च तदित्यप्रकृतमस्येति च प्रकृतमत्र निर्दिश्यते । तेन यदप्रकृतस्य रूपं कृतेन कुतोऽपि निमित्तान्नानुविधीयते सोडतद्गुण इत्यपि प्रतिपत्तव्यम् । यथा - गाङ्गमै सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः । राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते ॥ ५६६ ॥ reer साधितं केनाप्यपरेण तदन्यथा ॥ १३८॥ तथैव यद्विधीयेत स व्याघात इति स्मृतः । येनोपायेन यदेकेनोपकल्पितं तस्यान्येन विजिगीषु तैया तदुपायकमेव यदन्यथाकरणं स साधितवस्तुच्या इतिहेतुत्वाद् व्याघातः । उदाहरणम् ear दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः || ५६७|| ३३५ 5 10 धवलशब्दवाच्यस्य न रक्तत्वं निष्पन्नमिति अतद्गुणः || 15 ' गाङ्गम् ' इति । अङ्ग इतीष्टामन्त्रणे । सैव नान्यादृशी, या न चीयते । अत्र अप्रकृतगाङ्गयामुन जलस्य संपर्केऽपि प्रकृतस्य राजहंसस्य न तथारूपत्वमिति अतद्गुणः ।। [५९ ॥ ] ' दृशा दग्धम्' इति । अत्र दृष्टिलक्षणेन उपायेन स्मरस्य हरेण दाहविषयत्वं निष्पादितं मृगनयनाभिः पुनस्तेनैवपायेन तस्य जीवनीयत्वं 20 क्रियते । तच दाहविषयत्वस्य प्रतिपक्षभूतम् तेन व्याघातोऽलंकारः । सोऽपि व्यतिरेकनिमित्तत्वेन अत्रोक्तः ॥ ' विरूपाक्षस्य ' इति ' वामलोचना: ' इति च व्यतिरेकगर्भावेव वाचकौ, 'जयिनीः' इति व्यतिरेकोक्तिः ।। रसभावतदाभासतस्मशमानां गुणीभूतव्यङ्गन्यावसररसवत्प्रेय ऊर्जस्वि समाहितानि तथा भावोदयभावसन्धिभावशबलताश्च पृथगलंकाराः प्राक् प्रतिपादिताः ।। आशीच अमाप्तप्राप्ती- 25 च्छारूपमाशंसनप्रियोक्तिमात्रं, अथवा स्नेहनिर्भरतया शाब्दप्रयोगे चित्तवृत्तिविशेषः । स्नेहात्मा रतिभावविशेषरूप आशीर्द्वारतया प्रतीयत इति भावध्वनिरेव नालंकारः । अन्ये च भोजराजोकाः के चिदुक्तेष्वन्तर्भवन्ति, केचिच्च न चमत्कारकारिणः, केचित्तु काव्यशरीरमेवेति न सूत्रिताः ॥ ६० ॥

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374