Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 358
________________ 5 काव्यादर्शनामसंकेतसमेतः [१०६० उल्लासः ] सेष्टा संमृष्टिरेतेषां भेदेन यदिह स्थितिः ॥१३९॥ एतेषां समनन्तरमेवोक्तस्वरूपाणामलंकाराणां यथासंभवमन्योन्यनिरपेक्षतया यदिहै" शब्दभाग एव, अर्थविषय एव, उभयप्रापि वावस्थानं सैकार्थसमवायस्वभावा संसृष्टिः। तत्र शब्दालंकारसंसृष्टिः वैदैनसौरभलोभपरिभ्रमभ्रमरसंभ्रमसंभृतशोभया । चलितया विदधे कलमेखलाकलकलोऽलकलोलशान्यया ॥५६८॥ अर्थालंकारसंसृष्टिःलिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः । असत्पुरुषसेवेव दृष्टिविफलतां गता ॥५६९।। पूर्वत्र परस्परनिरपेक्षौ यमकानुमासौं संसृष्टिं प्रयोजयतः। उत्तरत्र तु तथाविधे उपमोत्पेक्षे । शब्दार्थालंकारयोस्तु संसृष्टिः सो णत्थि इत्य गामे जो एयं महमहन्तलायन्नम् । तरुणाण हिअअलळि परिसकन्तिं निवारेई ॥५७०।। एवं शुद्धानलंकारान समभेदानाख्याय यथा बाह्यालंकाराणां सौवर्णमणि- 15 मयमभृतीनां पृथक-चारुताहेतुत्वेऽपि संघटनाकृतं चारुत्वान्तरं जायते तद्वत् प्रकृतालंकाराणामपि संयोजनेन चारुत्वान्तरमुपलभ्यत इति संश्लेषसमुत्थापितमलंकारद्वयमुच्यते । तत्रैषा तिलतण्डुलन्यायेन मिश्रत्वे शब्दालंकारगतत्वेनार्थालंकारगतत्वेन उभयगतत्वेन च त्रेधेति त्रिविधां संसृष्टिमाह - सेप्टेति॥ यथासंभवमिति न सर्वेषां लक्षितानां, अपि तु केषांचित् , तत्रापि तेषां मध्ये कचिद् द्वयोः 20 कचित् त्रिचतुराणामिति यथायोगम् । संसृष्टश्च विषयभेदेन त्रिरूपत्वेऽपि संसृष्टया चैकरूपयेति प्रागुक्तं न विरुध्यते, नैरपेक्ष्यलक्षणस्य रूपस्याभिन्नत्वात् । वक्ष्यमाणसंकरस्तु स्वरूपेणैव नानात्वेनावभासत इति युक्तस्तत्र त्रिरूपताव्यवहारः ॥ सापि सजातीययोर्विजातीययोऽलंकारयोः स्यात् ।। यमकानुप्रासाविति विजातीयौ । अत्रैव 'लकलो-लकलो' इति तथा 25 'कलोल-कलोल ' इति सजातीययोर्यमकयो [:] संसर्गः । तथाविधे परस्परनिरपेक्षे ॥ उपमात्प्रेक्षे इति विजातीये । अत्रैव 'लिम्पतीव ' इति वर्षतीव' इत्युत्भेक्षयोः सजातीययोः संसृष्टिः ॥ 'एतां प्रसरल्लावण्या तरुणानां हृदयलुष्टिं परिष्वकमाणां निवारयति ॥ [छाया]

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374