Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
३२७
[ १०० उल्लासः ] काव्यप्रकाशः ।
प्रतिपक्षमशक्तेन प्रतिकतु तिरस्क्रिया। या तदीयस्य तत्स्तुत्ये प्रत्यनीकं तदुच्यते ॥१२९॥ न्यक्कृतिपरमपि विपक्षं साक्षानिरसिमसहेन केनापि यत्तमेव प्रतिपक्षमुत्कर्षयितुं तदाश्रितस्य तिरस्करणम्, तत् अनीकमतिनिधितुल्यत्वात् प्रत्यनीकममिधीयते। यथानीकेभियोज्ये तत्पतिनिधीभूतमपरं मूढतया केनचिदभियुज्यते, तथेह प्रतियोगिनि विजेये तदीयोऽन्यो विजीर्यते इत्यर्थः । उदाहरणम्
त्वं विनिर्जितमनोभवरूपः सा च सुन्दर भवत्यनुरक्ता। पञ्चभिर्युगपदेव शरैस्तां तापयत्यनुशयादैथ कामः ॥५४५॥ यथा वा
यस्य किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः ।
कान्तवक्त्रसदृशाकृति कृती राहुरिन्दुमधुनापि वाधते ॥५४६।। इन्दोरत्र तदीयता संबन्धिखसंबन्धात् ।
समेन लक्ष्मणा वस्तु वस्तुना यन्निगूयते । निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ॥१३०॥ 15
सहजमागन्तुकं वा किमपि साधारणं यल्लक्षणं तदद्वारेण
२१ किंचित्केनचिदिई यद्वस्तुस्थित्यैव बलीयस्तया तिरोधीयते, ..तन्मीलितमिति द्विधा स्मरन्ति । क्रमेणोदाहरणम्
या तदीयस्येति प्रतिपक्षसंबन्धिनो दुर्बलस्य यत्नं बाधितुं तिरस्कारः क्रियते प्रतिपक्षस्यैव बलवत्वेन स्तुत्यर्थं तत् प्रत्यनीकमलंकारः ॥ त्वं विनिर्जिते ' त्यत्र 20 प्रतिपक्षसंबन्धिविषयं प्रत्यनीकम् ।। यथा वेत्यनेन प्रतिपक्षसंबन्धिनः संबन्धिविषयमुदाहरति- 'यस्य' इति । अत्र राहोर्भगवान् विष्णुबलवान् प्रतिपक्षः, तदीयं वक्त्रम् , वक्त्रस्य च संबन्धी सादृश्यद्वारेण दुर्बलश्चन्द्रः, तत्तिरस्काराद् भगवतः प्रकर्षावगतिः' इत्याह- इन्दोरिति । संबन्धिवक्त्रं तेन हीन्दोः संबन्धः समत्वात् ॥१२७॥ [५०॥]
. 25 समेनेति । येन स्वाभाविकेनागन्तुकेन वा लक्ष्मणा यद्वस्तुना वस्त्वन्तरं तिरोधीयते तदन्वर्थाभिधानं मोलितम् । न चायं सामान्योऽलंकारः, तत्र हि साधारणगुणयोगाद् भेदोऽनुपलक्षणं, अत्र तु उत्कृष्टगुणेन निकृष्टस्य तिरोधानं,

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374