Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 348
________________ काव्यादर्शनामसंकेतसमेतः (१०व० उमासः ] अत्रानन्ददानं शरीरतापेन विरुध्यते । एवम्- . विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये । मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ॥५४२॥ इत्यादावपि विषमत्वं यथायोगमवगन्तव्यम् । .. महतोयन्महीयांसावाश्रिताश्रययोः क्रमात् । आश्रयायिणौ स्यातां तनुत्वेऽप्यधिकं तु तत् ॥१२८॥ आश्रितमार्यम्, आश्रयस्तदाधारः, तयोर्महतोरपि विषये तदपेक्षया तन अप्याश्रयायिणौ प्रस्तुतवस्तुपकर्षविवक्षया यथाक्रमं यदधिकतरतां व्रजतः, तदिदं द्विविधमधिकं नाम । क्रमेणोदाहरणम् अहो विशालं भूपाल भुवनत्रितयोदरम् । माति मातुमशक्योऽपि यचोराशियदत्र ते ॥५४३॥ युगान्तकालपतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत । ... तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः ॥५४४॥ मुदाहरणान्तरमप्याह-एवं- 'विपुलेने 'ति । अत्र हीनेन गुरुकार्यकरणाद् विष- 15 मत्वम् ॥ इत्यादावपीति. अपिशब्दाद् , यथा किं ददातु किमश्नातु भर्तव्यभरणाकुलः । . उदारमतिराप्तेऽपि जगत्रितयमात्रके ॥ -अत्र अधिकेनापि स्वल्पकार्यकारणाद् विषमत्वं ज्ञेयम् । यस्य च हेतोर्यत्फलं तस्य यदा तद्विपरीतं स्यात् तदा कारणविपरीतकार्यनिष्पत्यर्थं 20 कस्यचित् प्रयत्नोऽपि विषमं, यथा उन्नत्यै नमति प्रभुं प्रभुगृहान द्रष्टुं बहिस्तिष्ठति स्वद्रव्यव्ययमातनोति जडधीरागामिवित्तप्सया ।. प्राणान् प्राणितुमेव मुश्चति रणे क्लिश्नाति भोगेच्छया सर्व तद्विपरीतमेव कुरुते तृष्णान्धदृक् सेवकः ।। -अत्र नमन-बहिःस्थान-व्ययातनन - प्राणमोचन - क्लेशानां कारणानां क्रमाद् उन्नतिदर्शन - वित्तेप्सा- जीवन - भोगेच्छारूपाणि विपरीतकार्याणि प्रयत्नविषयत्वेन निबद्धानि ॥१२५॥[४८॥] 'माति 'इति वर्तते अनेनाश्रयस्य महीयस्त्वमुक्तमन्यथा मानस्यासंभवात् ॥ ॥१२६।। [४९॥ 25 ..... 30

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374