Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 354
________________ રુષ ३३२ काव्यादर्शनामसंकेतसमेत: [१०६. उल्लासः ] अत्र हालाहलस्योपमानत्वमसंभाव्यमेवोपनिबद्धम् । प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया । ऐकात्म्यं बध्यते योगात्तत्सामान्यमिति स्मृतम् ॥१३४॥ अतादशमपि ताशतया विवक्षितुं यदप्रस्तुतार्थेन संयुक्तमपरित्यक्तनिजगुणमेव तदेकात्मतया निबध्यते तत्समौनगुणनिष. 5. न्यात सामान्यम् । उदाहरणम्मलयजैरसविलिप्ततनवो नवहारलताविभूषिताः सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः । शशभृति विततधान्नि धवलयति घरामविभाव्यतां गताः प्रियवसति प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ।।५५८॥ 10 अञप्रस्तुततदन्ययोरन्यूनानतिरिक्ततया निबद्धं धवलत्वमेकात्मताहेतुः। अत एव पृथग्भावेन न तयोरुपलक्षणम् । यथा वावेत्रत्वचा तुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि । भृङ्गाः सहेलं यदि नापतिष्यन्कोऽवेदयिष्यन्नवचम्पकानि ।।५५९॥ 15 अत्र निमित्तान्तरजनितापि नानात्वमतीतिः प्रथमपतिपन्नमभेदं न व्युदसितमुत्सहते, प्रतीतत्वात्तस्य, प्रतीतेश्च बाधा योगात् । पुनर्न तथेति विषस्योत्कृष्टदोषत्वाद् असंभाव्यमानोपमानत्वं, तथापि उपमानत्वेन निबन्ध इति प्रतीपम् ॥ ॥१३१॥ [५५॥] 20 __ अपरित्यक्तनिजेनेत्यनेन तद्गुणादस्य विशेष दर्शयति, तत्र हि स्वगुणपरित्यागात् ॥ 'मलयजे 'ति । अत्र मलयजरसविलेपादीनां चन्द्रमभयाऽवि- . भाव्यतां गता इति भेदामतीतिर्दर्शिता ।। अत्र अष्टाविंशतिभिर्मात्राभिर्द्विपदीच्छ. न्दः ॥ प्रस्तुततदन्ययोरिति । प्रकृतापकृतयोरभिसारिकाचन्द्रयोरेकात्मनि भेदानध्यवसायाद् एकरूपत्वम् । ततः समानत्वयोगात् सामान्यम् । न चेयमपढ्नुतिः, 25 किंचिनिषिध्य कस्यचिद् अप्रतिष्ठापनात् ॥ निमित्तान्तरेति । भृङ्गपातजनिता भेदप्रतीतिरभेदं न निरस्यति, तस्याभेदस्य प्रतीतत्वात् ।। प्रतीतेश्चेति । न हि भावमभातं भवतीति ॥१३२।। [५६।।]

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374