Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 345
________________ [ १० १० उल्लासः ] काव्यकाशः । यथा धूमादि । यत्र तु हेतुफलभूतयोरपि धर्मयोः केनाप्यतिशयेन नानादेशतया युगपदवभासनम् सा तयोः स्वभावोत्पन्न परस्परसंगतित्यागादसंगतिः । उदाहरणम् - -- जस्से वणो तस्से वेर्येणा मणइ तं जणो अलियैम् । दन्तraj कॅओले बहूई विणा सत्तीण || ५३४ || एषा च विरोधबाधिनी न विरोधः, भिन्नाधारतयैव द्वयोरिह विरोधितायाः प्रतिभासात् । विरोधे तु विरोधित्वमेकाश्रयनिष्ठमनुक्तमपि पर्यवसितम् । अपवादविषयपरिहारेणोत्सर्गस्य व्यव - स्थितेः । तथा चैवं निदर्शितम् । २७५ समाधिः सुकरं कार्य कारणान्तरयोगतः । 10 यथा धूमादीति । न हि महान सदेशस्थो वह्निः पर्वतदेशस्थं धूमं जनयति । यदा त्वन्यदेशस्थं कारणमन्यदेशस्थं च कार्ये निबध्यते तदोचितसंग तेरभावाद् असंगतिरलंकारः ॥ हेतुफलभूतयोरिति कारणकार्ययोः ॥ अतिशयेनेति । अतिशयश्च कारणस्य कारणान्तरतो वैलक्षण्यं तच्च एतदेव यद् भिन्नदेशे कार्य तेन जन्यते ॥ 9 5 ननु, त्रुटितधूमखण्डं भिन्ने काले किल कारणाद् भिन्नदेश तयाप्युप- 15 लभ्यते । सत्यम्, अत एव युगपद्ग्रहणम् । तयोः कारणकार्ययोः ॥ दन्तक्षतं कारणं ' जस्सेअ वणो इति । व्रणः । अत्र वधूकपोलस्थं सपत्नीस्था च वेदना कार्यमिति भिन्नदेशत्वम् । यथा वासा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः [ सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥ ] ननु, कारणमन्यत्र कार्यमन्यत्रेति विरोधालंकार एवायमित्याशङ्कयाहएषा चेति ॥ उत्सर्गस्य विरोधस्य ॥ तथा चैत्रमिति । विरोधालंकारेऽपि एकाधारत्वे उदाहृतमित्यर्थः || १२२ ।। [४५ ।।] 20 -इत्यादौ । अत्र अन्यदेशस्थं कारणमन्यदेशस्थं च कार्यम् । अत्र च बाल्यनिमित्तमप्रागल्भ्यमन्यदन्यच्च स्मरनिमित्तकमिति तयोरभेदाध्यवसायः । एवमन्यत्रापि ॥ 25

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374