________________
[ १० १० उल्लासः ]
काव्यकाशः ।
यथा धूमादि । यत्र तु हेतुफलभूतयोरपि धर्मयोः केनाप्यतिशयेन नानादेशतया युगपदवभासनम् सा तयोः स्वभावोत्पन्न परस्परसंगतित्यागादसंगतिः । उदाहरणम् -
--
जस्से वणो तस्से वेर्येणा मणइ तं जणो अलियैम् । दन्तraj कॅओले बहूई विणा सत्तीण || ५३४ || एषा च विरोधबाधिनी न विरोधः, भिन्नाधारतयैव द्वयोरिह विरोधितायाः प्रतिभासात् । विरोधे तु विरोधित्वमेकाश्रयनिष्ठमनुक्तमपि पर्यवसितम् । अपवादविषयपरिहारेणोत्सर्गस्य व्यव - स्थितेः । तथा चैवं निदर्शितम् ।
२७५
समाधिः सुकरं कार्य कारणान्तरयोगतः ।
10
यथा धूमादीति । न हि महान सदेशस्थो वह्निः पर्वतदेशस्थं धूमं जनयति । यदा त्वन्यदेशस्थं कारणमन्यदेशस्थं च कार्ये निबध्यते तदोचितसंग तेरभावाद् असंगतिरलंकारः ॥ हेतुफलभूतयोरिति कारणकार्ययोः ॥ अतिशयेनेति । अतिशयश्च कारणस्य कारणान्तरतो वैलक्षण्यं तच्च एतदेव यद् भिन्नदेशे कार्य तेन जन्यते ॥
9
5
ननु, त्रुटितधूमखण्डं भिन्ने काले किल कारणाद् भिन्नदेश तयाप्युप- 15 लभ्यते । सत्यम्, अत एव युगपद्ग्रहणम् । तयोः कारणकार्ययोः ॥
दन्तक्षतं कारणं
' जस्सेअ वणो इति । व्रणः । अत्र वधूकपोलस्थं सपत्नीस्था च वेदना कार्यमिति भिन्नदेशत्वम् । यथा वासा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः
[ सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥ ]
ननु, कारणमन्यत्र कार्यमन्यत्रेति विरोधालंकार एवायमित्याशङ्कयाहएषा चेति ॥ उत्सर्गस्य विरोधस्य ॥ तथा चैत्रमिति । विरोधालंकारेऽपि एकाधारत्वे उदाहृतमित्यर्थः || १२२ ।। [४५ ।।]
20
-इत्यादौ । अत्र अन्यदेशस्थं कारणमन्यदेशस्थं च कार्यम् । अत्र च बाल्यनिमित्तमप्रागल्भ्यमन्यदन्यच्च स्मरनिमित्तकमिति तयोरभेदाध्यवसायः । एवमन्यत्रापि ॥
25