________________
काव्यादर्शनामसंकेतसमेतः [१०० उल्लासः ] वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैः
दृष्टेवा भिन्न कुलमं कापि कण्ठे । पुंस्त्वं तन्व्या व्यनयन्ती वयस्या
स्मित्वा पाणौ खड्गलेखां लिलेख ॥५३॥ अत्राकृतिमालोक्य कयापि वितर्कितं पुरुषायितमसिलतालेख- 5 नेन वैदग्ध्यादभिव्यक्तिमुपनीतम् । पुंसामेव पाणस्य पाणियोग्यत्वात् । यथा वा
संकेतकालमनस विटं ज्ञात्वा विदग्धया। हसन्नेत्राप्तिाकूत लीलापनं निमोलितम् ॥५३२।।
अत्र जिज्ञासितः संकेतकालः कयाचिदितिमात्रेण विदितो 10. निशासमयशंसिना कमळनिमीलनेन लीलया प्रतिपादितः।
उत्तरोत्तरमुत्कर्षों भवेत्सारः परावधिः ॥१२॥
परः पर्यन्तभागोऽवधिर्यस्य । धाराधिरोहितया तत्रैवोत्कर्षस्य विश्रान्तेः । उदाहरणम्
राज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधम् । . सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥१२३॥ भिन्नदेशतयात्यन्त कार्यकारणभूतयोः । युगपद्धर्मयोर्यत्र ख्यातिः सा स्यादसंगतिः ॥१२४॥ इह यद्देशं कारणं तद्देशमेव कार्यमुत्पधमानं दृष्टम् । · वक्त्रस्यन्दी 'ति । रत्नाकरस्य हरिविजये श्लोकोऽयम् । अत्र स्वेदकृतकुङ्कु- 20 मभेदरूपेणाकारेण संलक्षितं पुरुषायितं पाणौ पुरुषोचितखड्गलेखनेन प्रकाशितम् ॥ यथा वेति । इङ्गितात् ।। ' संकेने 'ति । 'संकेतकाले ज्ञातव्ये मनो यस्य स तथा'। अत्र संकेतकालाभिमायो विटसंबन्धिना भ्रक्षेपादिना इङ्गितेन लक्षितो रजनिकालभाविना लीलापअनिमीलनेन प्रकाशितः । साभिप्राया चेष्टा इजितं, निरभिमाया तु आकारः ॥ [४३॥]
25 पूर्वपूर्वापेक्षया उत्तरोत्तरस्य उत्कृष्टत्वनिबन्धनं सारः ॥ ‘राज्ये ' इति । अन 'राज्यापेक्षया वसुधायाः सारत्वं, वसुधापेक्षया तदेकदेशस्य गृहस्य' इत्यादि योज्यम् ॥ उत्कर्षे सारस्य पुंसि स्मरन्ति कवयस्तु नपुंसकेऽपीति ॥ ११९१२१॥ [४४॥]