________________
३२४
काम्यादर्शनामसंकेतसमेत: [१० १० उल्लास: ] साधनान्तरोपकृतेन का यदक्लेशेन कार्यमारब्धं समाधीयते स समाधिर्नाम । उदाहरणम्
मानमस्या निराकर्तुं पादयो, पतिष्यतः।
उपकाराय दिष्टयेर्दैमुदीर्ण घनगर्जितम् ।।५३५॥ समं योग्यतया योगो यदि संभावितः कचित् ॥१२॥ 5 इदमनयोः श्लाघ्यमिति योग्यतया संबन्धस्य नियतविषयमध्यवसानं चेत्तदा समम् । उदाहरणम्धातुः शिल्पातिशयनिकषस्थानमेषा मृगाक्षी.
रूपे देवोऽप्ययम पैमो दत्तपत्रः स्मरस्य । जातं दैवात्सदृशमनयोः संगतं यत्तदेत.
10 च्छृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ॥५३६॥ यथा वा
चित्रं चित्रं बत बत महचित्रमेतद्विचित्रं ___जातो दैवाचितरचनासंविधाता विधाता। यनिम्बानां परिणतफलस्फीतिरास्वादनीया
.. 15 यञ्चैतस्याः कवलनकलाकोविदः काकलोकः ॥५३७॥ - कचिद्यदतिवैधान्न श्लेषो घटनामियात् ।।
कर्तुः क्रियाफलावासि वानर्थश्च यद्भवेत् ॥१२६॥ साधनान्तरेति । कारणान्तरेण कृतोपकारेणेत्यर्थः । कर्तुः कार्य कुर्वतः कार्यस्य कारणान्तरसंबन्धाद् यत् सुकरत्वं स सम्यगाधानात् समाधिः ॥ 20 'मानम् ' इति । अत्र माननिराकरणे कार्ये पादपतनं कारणम् । तस्य सौकर्यार्थ कारणान्तरस्य धनगर्जितस्य योगः ॥ [४६॥].
योग्यतयेति । उत्कृष्टस्य उत्कृष्टं निकृष्टस्य निकृष्टं योग्यमिति योग्यता ॥ इदमिति संगतम् । योग्यतया सममिति व्यपदेशः ॥
'धातुः' इति । अत्र उचितस्य नायकयुगलस्य उचितं संघटनम् ॥ यथा वेति 25 निकृष्टविषयत्वेन । 'चित्रम्' इति । अत्र निकृष्टानां निम्बानां काकानां च योगः ॥१२३।। [४७॥]
समप्रस्तावे विषममाह- कचिदिति ॥