Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 322
________________ ३०० काव्यादर्शनामसंकेतसमेतः [१०० उल्लासः ] जातिश्चतुभिर्जात्यायविरुद्धा स्याद् गुणस्त्रिभिः ॥११०॥ क्रिया द्वाभ्यामथ द्रव्यं द्रव्येणैवेति ते दश।। क्रमेणोदाहरणम् - अभिनवनलिनीकिसलयमृणालवलयादि दवदहनराशिः। सुभग कुरङ्गशोऽस्या विधिवशतस्त्वद्वियोगपविपाते ॥४८२॥ 5गिरयोऽप्यनुन्नतियुनो मरुदप्यवलोऽब्धयोऽप्यगम्भीराः । विश्वभराऽप्यतिलघुर्नरनाथ तवान्तिके नियतम् ।।४८३।। येषां कण्ठपरिग्रहप्रणयितां संप्राप्य धाराघर__ स्तीक्ष्णः सोऽप्यनुरज्यते च कमपि स्नेहं पराप्नोति च । तेषां संगरसङ्गसक्तमनसां राज्ञां त्वया भूपते पांसूनां पटलैः प्रसाधनविधिनियंते कौतुकम् ॥४८४॥ सृजति च जगदिदमवति च संहरति च हेलयैव यो नियतम् । अवसरवशतः शफरो जनार्दनः सोऽपि चित्रमिदम् ।।४८५॥ सततं मुसलासक्ता बहुतरगृहकर्मघटनया नृपते । द्विजपत्नीनां कठिनाः सति भवति कराः सरोजसुकुमाराः ॥४८६।। 15 धाभासो विरोधः । समाधानं तु विना दोष एव ।। जात्यायैरिति । जातिर्जात्या गुणेन क्रियया द्रव्येणेति चत्वारः । गुणो गुणेन क्रियया द्रव्येणेति त्रयः। क्रिया क्रियाद्रव्याभ्यामिति द्वौ। द्रव्यं द्रव्येणेति एकः। एवं दश विरोधभेदाः ॥ रुद्रटस्तु 'नित्यमेव द्रव्याश्रितत्वाद् जातेन जातिद्रव्ययोविरोध' इति नव भेदानाह ।। 'अभिनवे 'ति । 'पवित्रम् ' । अत्र नलिनीत्वादिजातीनां दवदहनत्वजातेश्च 20 अन्योन्यं विरोधो वियोगवशेनेति परिहियते ।। गुणेन यथा- 'गिरयोऽपि ' इति । 'बलं जवः सैन्यं च'। 'त्वमेव महान् सैन्यवान् गम्भीरोऽतिविस्तारवांश्च' इति तात्पर्यार्थः । अत्र गिरित्वजातेलघुत्वपर्यायानुन्नतिलक्षणेन, मरुत्त्वजातेर्मन्दत्वगुणेन, अब्धित्वजातेनिम्नत्वगुणेन, विश्वंभरावजातेरतिलघुत्वगुणेन विरोधः ।। 25 'येषाम् ' इति। धाराधरः खड्गः । अनुरज्यत इति अनुरागः। शोणितकृतं शोणत्वं च । स्नेहो रुधिरादत्वमपि । अत्र 'पांशूनाम् 'इति पांशुत्वजातेमण्डनक्रियया सह विरोधः ॥ 'सजति ' इति। अत्र शफरत्वजातेजनार्दनद्रव्येण सह विरोधः॥ सततम् । इति ।। अत्र काठिन्यसौकुमाययोर्गुणयोर्विरोधः ।। • 30

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374