Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 331
________________ [१०० उल्लासः ] काव्यप्रकाशः। अधाराधनतोषितेन विभुना युष्मत्सपर्यासुखालोकोच्छेदिनि मोक्षनामनि महामोहे निधीयामहे ॥५०३॥ एषु अपराधद्वये पूर्वापरजन्मनोरै मनम् , भुजपाते शस्त्रोपक्षेपः, महामोहे सुखालोकोच्छेदित्वं च यथाक्रममुक्तरूपो हेतुः। पर्यायोक्तं विना वाच्यवाचकत्वेने वस्तु यत् । 5 वाच्यवाचकमावविविक्तेनावगमनव्यापारेण यत्पतिपादनं, तत्पर्यायेण भजयन्तरेण कथनात्पर्यायोक्तम् । उदाहरणम् यं प्रेक्ष्य चिररूढापि निवासपीतिरुनिता। मदेनरावणमुखे मानेन हृदये हरेः ॥५०४।। अौरावणशक्रौ मदमानमुक्तौ जाताविति व्यङ्गयमपि शब्देनो- 10 च्यते । तेन यदेवोच्यते तदेव व्यङ्ग्यम् , यथा तु व्याध न तथोच्यते । यथा गवि शुक्ले चलति दृष्टे 'गौः शुक्लश्चलति'-इति विकल्पः । यदेव दृष्टं तदेव विकल्पयति, न तु यथा दृष्टं तथा । अभिनासंसृष्टत्वेन दृष्टम् , भेदसंसर्गाभ्यां विकल्पयति । पदार्थतया उक्तम् ॥११२।। [३१॥] वाच्येति । वाच्यस्याभिधेयस्य वाचकस्याभिधेयकस्य भावमन्तरेणापि प्रकारान्तरेणार्थसामर्थ्यात्मनावगमनन्यापारणेत्यर्थः ॥ मङ्गयन्तरेणेति । यदेव गम्यते तस्यैव प्रकारान्तरेण अभिधानाद अप्रस्तुतप्रशंसातोऽस्य भेदः। न हि तत्र गम्यस्यार्थस्य भङ्गयन्तरेणाभिधानम् , अपि तु अप्रस्तुतद्वारेण तस्याक्षेपः ।। ___व्यङ्गयमपोति योग्यतया निर्देशः ॥ शब्देनोच्यत इति । भगयन्तररचित- 20 शब्दरभिधानम् ॥ तेनेति । यद् भगवन्तरेणोच्यते तद् व्ययम् ।। यथा त्वेकघनरूपतात्मकपकारेण व्यङ्गधं प्रतीयते, न तथा वक्तुं शक्यते, क्रममाविविकल्पप्रभवानां अन्दानां तथाभिधानशक्तेरभावाद, इत्याह-यथा स्विति ।। एतदेव दृष्टान्वेनाइ-यथा गीति ॥ तदेवेति । एतदीयत्वाद् अनुभवस्य तदाकारतयैव तस्योत्पत्तेः ॥ न तु यथा दृष्टमिति । न हि याशो निर्विकल्पस्य व्यापारस्तान एव 25. मवति विकल्पस्य, अशेषविवक्षावच्छिन्नस्वलक्षणाकारतयानुभवस्योत्पत्तेः ॥ अभिन्नेति । निरंशस्य वस्तुनो भेदसंसर्गयोरभावात् । तौ हि विकल्पस्यैव व्यापारः । स हि अभिन्नमपि वस्तु 'गौः शुक्लश्चलः' इत्येवं भिनत्ति, भिन्नमपि पदार्थ 'अयं गौरयमपि गौः' इत्येवं संसृजति । गोत्व-चलत्व-क्लत्वानामभि 15

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374