Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
३१०
काव्यादर्श नाम संकेतसमेतः
[ १० द० उल्लासः 1
उदात्तं वस्तुनः संपत् संपत्समृद्धियोगः । यथा
मुक्ताः केलिविसूत्रहारगलिताः संभर्जिनीभिर्हताः प्रातः प्राङ्गणसीम्नि मन्थरचलद्वीला हिलाक्षारुणाः । दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केली का यद्विद्वद्भवनेषु भोजनृपतेस्तच्यागलीलायितम् ||५०५ ।। महतां चोपलक्षणम् ॥ ११५ ॥
उपलक्षणमङ्गभावः, अर्थादुपलक्षणीयेऽर्थे । उदाहरणम्तदिदमरण्यं यस्मिन्दशरथवचनानुपालन व्यसनी । निवसन्बाहु सहायश्चकार रक्षःक्षयं रामः ||५०६ ॥ न चात्र वीरो रसः, तस्येहाङ्गत्वात् । तत्सिद्धिहेतावेकस्मिन्यत्रान्यत्तत्करं भवेत् ।
समुचयोsat
तस्य प्रस्तुतस्य कार्यस्यैकस्मिन्साधके स्थिते साधकान्तराणि यत्र सन्ति, स समुच्चयः । उदाहरणम्
नानां तु संसर्गः ॥ [३२॥ ]
स्वभाव भावि च यथास्थितवस्तुवर्णन मैश्वर्यलक्षितमुदात्तालंकारः । न चेयमतिशयोक्तिः अन्यस्यान्यतयाध्यवसायाभावात् ॥
5
10
15
महतां चेति । उदारचरितानां अङ्गिभूतवस्त्वन्तरस्य अङ्गभावाभिधानमप्युदात्तम् || ' तदिदम्' इति । अत्र अरण्ये वर्णनीये रामचरितमङ्गत्वेन वर्णितम् | 20 रामवासाद्धि दण्डकारण्यस्योत्कर्ष: ॥
ननु, अङ्गिभूतरसादिविषये रसादिध्वनिरुक्त इत्याह-न चेति ॥ तस्येति । वीररसस्याङ्गत्वाद् अप्रधानत्वात् । तर्हि अङ्गभूतरसादिविषये रसवदाद्यलंकारा उक्ता इत्युदात्तालंकारविषयश्चिन्त्यः, तद्विषयस्य रसवदादिना व्याप्यत्वात् । सत्यम्, अङ्गत्वेऽपि न रसवदलंकारोऽस्योदात्तस्य तदपवादत्वात् ॥ ११३॥ [३३] 25 समुच्चय इति । तुल्यकक्षतामपेक्ष्यैव समुच्चयनं समुच्चय इति व्युत्पत्तेर्नास्य समाध्यलंकारान्तर्भावः । यत्र ह्येकस्य कार्य प्रति पूर्ण साधकत्वमन्यस्तु कार्याय काकतालीयेनापति तत्र तुल्यकक्षताभावे समाधिर्वक्ष्यते । यत्र तु खले-पोतिकया बहूनामत्रतरस्तुल्यकक्षतया तत्र समुच्चय इत्यनयोर्भेदः ॥ हेतौ हेत्वन्तरं,

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374