Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
[१०० उल्लासः ] काव्यप्रकाशः ।
३११ दुराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं
गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम् । स्त्रीत्वं धैर्यविरोधि मन्मयमुहृत्कालः कृतान्तोऽक्षगो
नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं शठः ॥५०७॥ अत्र विरहासहत्त्वं स्मरमार्गणा एव कुर्वन्ति, तदुपरि प्रियतमदूरस्थित्यादि उपात्तम् । एष एव समुच्चयः सद्योगेऽसद्योगे सदसघोगे च पर्यवस्यतीति न पृथग्लक्ष्यते । तथा हि- . कुलममलिनं भद्रा मूतिर्मतिः श्रुतेशालिनी . भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगा घेते भावा अमीभिरय जनो
10 व्रजति सुतरां दर्षे राजस्त एव तवाडशाः ॥५०८॥ अत्र सतां योगः । उक्तोदाहरणे त्वसतां योगः ।
शशी दिवसधूसरो गलितयौवना कामिनी ___ सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः । प्रभुर्घनपरायणः सततर्गतः सज्जनो
नृपाइणगतः खलो मनसि सप्त शल्यानि मे ॥५०९।।
अत्र शशिनि धूसरे शल्ये शल्यान्तराणीति शोभनाशोमनयोगः । यथा- 'दुर्वारा ' इति । अव्याहतप्रसराः ॥
न पृथगिति । रुद्रटो हि त्रेधाऽन्यः सदसतोर्योग इति सद्योगादिना रूपान्तरेण पृथगलक्षयन् , न तथात्रेति भावः ॥ ' कुलम् ' इति । अत्र अमालिन्येन शोभनस्य 20 कुलस्य मूर्त्यादिभिः शौभनैः समुच्चयः, एकैकं च दर्पहेतुतया योग्यं सत् स्पर्धया निबद्धम् । उक्तोदाहरणे दुराः स्मर' इत्यादौ स्मरमार्गणानां दुरित्वेन अशोभनानां ताशैरेव दूरत्वात् प्रियतमादिभिः समुच्चयः, नववयाप्रभृतेश्च सत्यपि शोभनत्वे सर्वेषामपि अशोभनत्वकथनं, अशोभनत्वेनैव विरहिण्या भावितत्वात् ॥ सदसतः शोभनाशोभनस्य तादृशेन सदसता समुच्चीयमानेन योगे, यथा- 25 'शशी' इति । शल्यानि' इति एकत्रोपसंहतानि सुन्दरत्वेनान्तःपविष्टान्यपि व्यथाहेतुत्वात् ॥ शोभनाशोभनयोग इति । तथा हि शशिनः शोमनत्वं प्रकृतिसौन्दर्याद, अशोभनत्वं तु दिवसधूसरत्वादिति 'शशी दिवसधूसरः' इत्यस्य सदसद्पस्य तादृशैरेव 'गलितयौवना कामिनी' इत्यादिभिः सदसद्रूपैः समुच्चयः । अत्रापि
15

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374