SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ [१०० उल्लासः ] काव्यप्रकाशः । ३११ दुराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम् । स्त्रीत्वं धैर्यविरोधि मन्मयमुहृत्कालः कृतान्तोऽक्षगो नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं शठः ॥५०७॥ अत्र विरहासहत्त्वं स्मरमार्गणा एव कुर्वन्ति, तदुपरि प्रियतमदूरस्थित्यादि उपात्तम् । एष एव समुच्चयः सद्योगेऽसद्योगे सदसघोगे च पर्यवस्यतीति न पृथग्लक्ष्यते । तथा हि- . कुलममलिनं भद्रा मूतिर्मतिः श्रुतेशालिनी . भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगा घेते भावा अमीभिरय जनो 10 व्रजति सुतरां दर्षे राजस्त एव तवाडशाः ॥५०८॥ अत्र सतां योगः । उक्तोदाहरणे त्वसतां योगः । शशी दिवसधूसरो गलितयौवना कामिनी ___ सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः । प्रभुर्घनपरायणः सततर्गतः सज्जनो नृपाइणगतः खलो मनसि सप्त शल्यानि मे ॥५०९।। अत्र शशिनि धूसरे शल्ये शल्यान्तराणीति शोभनाशोमनयोगः । यथा- 'दुर्वारा ' इति । अव्याहतप्रसराः ॥ न पृथगिति । रुद्रटो हि त्रेधाऽन्यः सदसतोर्योग इति सद्योगादिना रूपान्तरेण पृथगलक्षयन् , न तथात्रेति भावः ॥ ' कुलम् ' इति । अत्र अमालिन्येन शोभनस्य 20 कुलस्य मूर्त्यादिभिः शौभनैः समुच्चयः, एकैकं च दर्पहेतुतया योग्यं सत् स्पर्धया निबद्धम् । उक्तोदाहरणे दुराः स्मर' इत्यादौ स्मरमार्गणानां दुरित्वेन अशोभनानां ताशैरेव दूरत्वात् प्रियतमादिभिः समुच्चयः, नववयाप्रभृतेश्च सत्यपि शोभनत्वे सर्वेषामपि अशोभनत्वकथनं, अशोभनत्वेनैव विरहिण्या भावितत्वात् ॥ सदसतः शोभनाशोभनस्य तादृशेन सदसता समुच्चीयमानेन योगे, यथा- 25 'शशी' इति । शल्यानि' इति एकत्रोपसंहतानि सुन्दरत्वेनान्तःपविष्टान्यपि व्यथाहेतुत्वात् ॥ शोभनाशोभनयोग इति । तथा हि शशिनः शोमनत्वं प्रकृतिसौन्दर्याद, अशोभनत्वं तु दिवसधूसरत्वादिति 'शशी दिवसधूसरः' इत्यस्य सदसद्पस्य तादृशैरेव 'गलितयौवना कामिनी' इत्यादिभिः सदसद्रूपैः समुच्चयः । अत्रापि 15
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy