________________
३१२
काव्यादर्शनामसंकेतसमेतः [१० ६. उल्लासः ]
स त्वन्यो युगपद्या गुणक्रियाः॥११६।। गुणौ च क्रिये च गुणक्रिये च गुणक्रियाः । क्रमेणोदाहरणम् -
विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च ।
प्रखलमुखानि नराधिप मलिनानि च तानि जातानि ।।५१०॥ • अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे ।
नववारिधरोदयादहोभिर्भवितव्यं च निरौतपत्ररम्यैः ॥११॥ कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसँन्दरभि चक्षुः।
पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षः ॥५१२॥ 'कामिनी' इति सत . 'गलितयौवना' इत्यसत । एवमुत्तरत्रापि । इह विशेष्यस्य शोभनत्वं प्रक्रान्त, विशेषणस्य तु अशोभनत्वम् । 'नृपाङ्गनगतः खलः' 10 इत्यत्र तु नृपाङ्गनगतत्वेन विशेषणस्य शोमनत्वं, विशेष्यस्य खलत्वेन अशोभनत्वमिति विपर्ययात् प्रक्रमभङ्गो दोषः । न त्वत्र कश्चित समुच्चीयमानः शोभनः. अन्यस्तु अशोभन इति सदसद्योगो व्याख्येयः । तथा छत्र शोभनस्य सतोऽशो. भनत्वविवक्षा, 'दुराः स्मर' इत्यत्र तु अशोमनानामेवेति विवक्षितम् । अतः एव 'कथं सोडव्यः' इति सर्वथा दुष्टत्वाभिप्रायेण उपन्यस्तमिति अस्त्यनयोः 15 प्रकारयोर्भदः॥
गुणक्रिया इति बहुवचनं व्याप्त्यर्थम् । तेन गुणक्रियाणां व्यस्तत्वेन समस्तत्वेन च विधायमपरः समुच्चय - इत्याह - गुणौ चेति ॥ · विदलिते 'ति । अत्र विमलत्वं मलिनत्वं युगपद् गुणाववस्थितौ, तयोर्बलं स्वं खलमुखानि चाधारः ॥ क्रियासमुच्चयः, यथा - 'अयम् ' इति । अत्र ' उपनतः' इति ' भवितव्यं च ' 20 इति क्रिये ॥ ' कलुषं च ' इति । कलुषत्वं गुणः, पतनं च क्रिया, तर्योयुगपद् योगः ॥ यथा वा- 'न्यञ्चत्कुञ्चितमुत्सुकं हसितवत्साकूतमाकेकरम् ' इत्यादौ । आकेकरादयो गुणशब्दा, न्यश्चदादयः क्रियाशब्दा इति सामस्त्येन गुणक्रिया योगपी । 'प्रसदिसाप्रमे (?) त्यादीनां च समासकृत्तद्धितेषु संबन्धाभिधानमिति संबन्धस्य वाच्यत्वात्तस्य च सिद्धधर्मरूपत्वेन गुणत्वाद् गुणानां योगपद्यम् । 25 रुद्रटेन तु
व्यधिकरणे वा यस्मिन् गुणक्रिये चैककालमेकस्मिन् । उपजायेते देशे समुच्चयः स्यात् तदान्योऽसौ ॥