________________
३
[१०० उल्लासः ] ... . काव्यप्रकाशः।
'धुनोति चासिं तनुते च कीर्तिम् ' -इत्यादेः, 'कृपाणपाणिश्च भवानणशितो ससाधुवादाच सुराः सुरालये' इत्यादेच दर्शनात्, 'व्यधिकरणे'-इति 'एकस्मिन्देशे' -इति च न वाच्यम् ।
एक क्रमेणानेकस्मिन्पर्यायः एफ वस्तु क्रमेणानेकस्मिन्भवति क्रियते वा से पर्यायः । क्रमेणोदाहरणम्नन्वाश्रयस्थितिरियं तव कालकूट
केनोत्तरोत्तरविशिष्टपदोपदिष्टा। मागणवस्य हृदये वृषलक्ष्मणोऽथ
कण्ठेऽधुना वससि वाचि पुनः खलानाम् ॥५१३॥ श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः .. पद्भयाँ मुक्तास्तरलगतयः संश्रिता लोचनाभ्याम् । धत्ते वक्षः कुचसचिवतामद्वितीयं च वक्त्रं तगात्राणां गुणविनिमयः कल्पितो यौवनेन ||५१४॥
15 ....--इति यदुक्तं तन्न वाच्यमित्याह -'धुनोति ' इति । तत्र एकाधिकरणक्रिययोः समुच्चयः ॥ ‘कृपाणे 'त्यादि कृपाणपाणित्वं साधुवादश्च गुणौ, तयोः क्षितिसुरालयौ भिन्नौ देशौ ॥११४॥ ३४॥]
एकमिति । एकमाधेयमनेकस्मिन्नाधारे यत् तिष्ठति क्रियते वा स दिघा पर्यायः ॥ .
नन, एकस्यानेकत्र वृत्तौ विशेषालंकारो यक्ष्यते, तव किमयमुच्यत इत्यामकथा- क्रमेणेति । इह क्रमप्रतिपादनं, अत एव तत्रापि युगपद् ग्रहणं कतम् । क्रमाश्रयणाच पर्याय इति सान्वयं नाम । क्रमेण उदेति अनन्तरम् ।।
श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः __पयां मुक्तास्तरलातयः संश्रिता लोचनाभ्याम् ।
25 धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्त्रं
तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥ -इत्ययं पाठः । 'तनुतामेव मध्यभागः सेवते ' अत्र एकस्य तनुतादेईये वृत्तिर्दर्शिता । आद्यार्धमेव च श्लोकस्योदाहरणम् ।।
'नन्वाश्रये 'ति । अत्र एकस्य विषयस्य अन्ध्यादिषु बहुषु इत्तिः॥ 30
20
४०