________________
३१४
काव्यादर्शनामसंकेतसमेतः [१०० उल्लासः ] यथा वाबिम्बोष्ठ एक रागस्ते तन्वि पूर्वपदृश्यत ।
अधुना हृदयेऽप्येष मृगशावाक्षि लक्ष्यते ॥५१॥ . रागस्य वस्तुतो भेदेऽप्येकतयाध्यवसितत्वादेकत्वमविरुद्धम् ।
तं ताण सिरिसहोअररप्रणाहरणम्मि हिअअमेक्करसम् । बिम्बाहरे पिआण"निवेसि कुसुमबाणेण ॥१६॥
अन्यस्ततोऽन्यथा । अनेकमेकस्मिन्क्रमेण भवति क्रियते वा सोऽन्यः । क्रमेणोदाहरणम् --
मधुरिमरुचिरं वचः खलानाममृतमहो प्रथमं पृथु व्यनक्ति। 10 अथ कथयति मोहहेतुरन्तर्गतमिव हालहलं विषं तदेव ॥५१७॥ तद्गुहं नतभित्ति मन्दिरमिदं लब्धावकाशं दिवः ___ सा धेनुर्जरती नदन्ति करिणामेता घनाभा घटाः। स क्षुद्रो मुसलध्वनिः कलमिदं संगीतकं योषिता
माश्चर्य दिवसैद्विजोऽयमियती भूमि परां प्रापितः ॥५१८॥ 15 यथा वेति । प्रकारान्तरोपक्षेपार्थम् ॥ 'बिम्बोष्ठे 'ति । अत्र प्राच्यमाश्रयमत्यजत एव रागस्यैकस्य हृदयेऽपि वृत्तिनिबद्धा । एवं लक्षणमवान्तरं भेदमा श्रित्य एकत्रैव उदाहरणत्रयं दर्शितम् ॥
'रागस्य ' इति । अन्यो हि राग ओष्ठगतस्ताम्बूलादिजनितोऽभ्यश्च चित्त इति भेदेऽपि अभेदोपचारः ॥
20 एकमनेकत्र क्रियते, यथा-'तं ताण' इति । 'तद् हृदयं निःशङ्कव्यवसायं तेषामसुराणामिन्द्रमपि अभिभवतां श्रीसहोदराणां रत्नानामा समन्ताद्धरणे एकरसं तत्परं कुसुमबाणेन सुकुमारतरोपकरणेनापि प्रियाणां बिम्बाधरे निवेशितम् । चुम्बनादिसक्तं कृतं यद् अत्यन्तं विजिगीषा-जाज्वल्यमानमभूद ' इत्यर्थः । सकलरत्नसारतुल्यो बिम्बाधर इति तेषां बहुमानो वास्तव एवेति प्रतीयमानो 25 पमापि ॥
‘मधुरिमे 'ति । अत्र अनेकममृतं हालाहलं च एकस्मिन् खलवचसि आधारे भूतम् ॥
तद्गेहम्' इति । अत्र अनेकं गेहादि एकस्मिन् द्विजे दिवसैः कृतम् ॥