SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ [ १० ६० उल्लासः ] काव्यप्रकाशः । अत्रैकस्यैव हानोपादानयोर विवक्षितत्वान्न परिवृत्तिः । अनुमानं तदुक्तं यत्साध्यसाधनयोर्वचः ॥११७॥ पैक्षैधर्मान्वयव्यतिरेकित्वेन त्रिरूपो हेतुः साधनम्, धर्मिणि २२४ अयोगं व्यवच्छेदो व्यापकस्य साध्यम् । यथा - यत्रेता लहरीचलाचलद्दशो व्यापारयन्ति भ्रुवं यत्तत्रैव पतन्ति संततममी मर्मस्पृशो मार्गणाः । ३१५ तच्चक्रीकृतचापमञ्चितशरमेङ्खत्करः क्रोधनो धावत्यग्रत एव शासनधरः सत्यं सदासां स्मरः ॥ ५१९ ॥ एकस्यैवेति । यथा परिवृत्तौ 'मरुल्लास्यं त्यजति लता श्रीपाददते' इत्येवमेकस्यैव नोपादाने विवक्षिते, न तथात्रेति । अत्र नतभित्ति गृहस्य हानमेव विवक्षि- 10 तम् । अत्रापि ' क्रमेण ' इति योज्यम्, अन्यथा समुच्चयालंकारविषयत्वं स्यात् । अत एव समुच्चयलक्षणे युगपद्ग्रहणं कृतम् ।। [३५] 5 अनुमानमिति । यत्र शब्दवृत्तेन पक्षधर्मः सपक्षसत्त्वं विपक्षाद् व्यावृत्तिरित्यन्वयव्यतिरेकत्रांस्त्रिरूपो हेतु: साध्यस्य निर्मासितस्यार्थस्व प्रतीतये निर्दिश्यते सोऽनुमानालंकारः । धर्मिणि पर्वतादौ अयोगव्यवच्छेदोऽस्तित्वं व्या- 15 पकस्य वहयादेः साध्यम् ॥ ' यत्रैता' इति । ' अश्चित आकृष्टः ' । अत्र योषितां भ्रूव्यापारेण मार्गणपतनं साधनं, स्मरस्य पुरोगामित्वं साध्यं, योषिल्लक्षणो धर्मः प्रौढोक्तिमात्रनिष्पन्नार्थत्वेन च विशेषाश्रयणात् तर्कानुमानवैलक्षण्यम्, ततश्च ' अस्त्यत्रानिधूमाद्' इति परिहृतम् || कचित्तु अलंकारान्तरगर्भीकारेणापि अयं, यथायथारन्धं व्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः । यथा विद्युज्ज्वलल्लन परिपिङ्गाव ककुभस्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः ॥ - अत्र घूमस्फुलिङ्गकपिलदिकानि वह्निलिङ्गानि त्रिरूपत्वाद् दवशब्दपतिपादितं वहिं गमयन्तीति रूपकगर्भीकारे विच्छित्याश्रयान्न तर्कानुमानम् || 'आदौ साध्यस्य निर्देशः, पश्चात् साधनस्योपन्यासः, यद्वा आदौ साध्यस्योक्तिः, तदनु 20 25
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy