Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 338
________________ ३१६ काव्यादर्शनामसंकेतसमेतः । १० ८० उल्लासः ] साध्यसाधनयोः पौर्वापर्यविकल्पने वैचित्र्यं भकिचिदिति तथा नदर्शितम् । विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः। अर्थाद्विशेष्यस्य । उदाहरणम्महौजसो मानधना धनाचिंता धनुर्भूतः संयति लब्धकीर्तयः । नसंहतास्तस्य"नभेदवृत्तयः प्रियाणि वाग्छन्त्यमुभिः समीडितुम् ॥५२०॥ साधनस्येति यथा रुद्रटेनोक्तं, न तथा निरूपितमित्याह- साध्यसाधनयोरिति । वाक्पतिपादाश्च दण्डापूपिकयार्थान्तरापतनमापत्तिमपि अलंकारमाहुः । दण्डापूपी 10 विद्यते यस्यां नीती, मत्वर्थीयः प्रत्ययः । यद्वा, दण्डापूपयोर्भावो दण्डापूपिका 'द्वन्द्वमनोनादिभ्यश्च' इति बुक् , पृषोदरादित्वाद् वृद्धयमावः, यवा' अहमहमिका' इति । अत्र हि मूषिककर्तृकेण दण्डभक्षणेन तत्सहभावि अपूपभक्षणमर्थात सिद्धम् । एष दण्डापूपन्यायः । तद्वद् यत्कस्यचिदर्थस्य निष्पत्तौ सामर्थ्याद् अर्थान्तरमापतति सार्थापत्तिः, यथा 15 पशुपतिरपि तान्यहानि कृच्छादगमयदद्रिसुतासमागमोत्कः। । कमपरमवशं न विप्रकुर्यविभुमपि [चेद्] यदमी स्पृशन्ति भावाः ॥ -अत्र विभुवृत्तान्तः प्रस्तुतोऽपरजनवृत्तान्तममस्तुतमर्थादाक्षिपति ॥ यथा वा निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि । अन्यथानुपपन्नैव पयोधरभरस्थितिः ॥ 20 -अत्र स्तनस्थितिरन्यथानुपपद्यमाना मध्यमनुपलभ्यमानमेवेदमिति ॥ ॥११५॥३६॥] साकूतैरिति साभिप्रायैः प्रतीयमानार्थगर्भीकृतैः, अत एव प्रसन्नगम्भीरपदत्वान्न ध्वनेविषयः । गम्यस्यांशस्य वाचोन्मुखत्वात् परिकर इति च सार्थक नाम ॥ विशेष्यस्येति । विशेषणैरुपलक्षितस्य विशेष्यस्योक्तिः ।। 25 — महौजस ' इति । बलिष्ठत्वे सति प्रभोः कार्य पूरयितुं शक्यमिति आकूतमस्य विशेषणस्यैवमन्येष्वपि विशेषणेषु वाच्यम् । साकूतग्रहणाच 'न्यस्ताक्षरा धातुरसेन यत्र' इत्यत्र 'भूर्जत्वचः कुञ्जरबिन्दुशोणाः' इति विशेषणं वस्तुस्वरूपल्यापकमित्यस्य निरासः ॥

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374