Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 339
________________ । १०.६० उल्लासः ] काव्यप्रकाशः । यद्यप्यपुष्टार्थस्य दोषताभिधानात्तन्निराकरणेन पुष्टार्थस्वीकारः कृतः, तथाप्येकनिष्ठत्वेन बहूनां विशेषणानामेवमुपन्यासे वैचित्र्यमित्यलङ्कारमध्ये गणितः। व्याजोक्तिश्छद्मनोद्भिन्नवस्तुरूपनिगृहनम् ॥११८॥ निगूढमपि वस्तुनो रूपं कथमपि प्रभिन्नं केनापि व्यपदेशेन यदपाइनुयते सा व्याजोक्तिः। न चैषापहनुतिः। प्रकृतापकतोभयनिष्ठस्य साम्यस्येहासंभवात् । उदाहरणम् शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लस . द्रोमाञ्चादिविसंस्थुलौखिलविधिव्यासङ्गमङ्गाकुलः। हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं 10 शैलान्तःपुरमातृमण्डलगणैदृष्टोऽवताद्वः शिवः ॥२१॥ अप्र पुलकवेपथू साविकरूपतया प्रमृतौ शैत्यकारणतया प्रकाशितत्वादपलपितस्वरूपौ व्याजोक्ति प्रयोजयतः । किंचित्पृष्टमपृष्टं वा कथितं यत्प्रकल्पते । ताहगन्यव्यपोहाय परिसंख्या तु सा स्मृता ॥११९॥ 15 'पुष्टार्थपदं न प्रयोज्यम्' इति पुष्टार्थानि विशेषणान्युपाचानि अत्रेति दोपत्यागमात्रं, न त्वलंकार इत्याशङ्कयाह-यद्यपीति ॥ [३७॥] न चैषेति । कचित्मकृतनिष्ठं साम्यं, यथा__ सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति । . अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिव ॥ -इति समुचितोपमायाम् ॥ कचिद् अपकृतनिष्ठं, यथा कस्यांचित्तुल्ययोगितायाम् । अपड्नुतौ तु प्रकृतामकृतनिष्ठं सादृश्यम् । न च तथेहास्ति, प्रकृतस्यैव सद्भावात् । उद्भटेन तु ब्याजोत्यनभिधानाद् अत्रापि अपड्नुतिरुक्ता ॥ 'शैलेन्द्रे 'ति । 'हिमाचलपतिपाद्यमानगौर्या हस्तोपगृहनमाश्लेषः । ततश्च 25 हिमाचलकरस्पर्शोऽप्यस्ति शिवस्य । व्यासको निरोधः, तस्माद् भङ्गो मयम् ॥ सात्त्विकरूपतयेति गौरीकरस्पर्शाद् उद्भिन्नत्वात् ॥११६॥ ३८॥] किंचित्पृष्टमिति । अन्यव्यवच्छेदाय या उक्तिः सा कस्यचित् परिवर्जनेन .: कुत्रचित् संख्यानं वर्णनीयत्वेन गणनं परिसंख्या । परिवर्जने प्रमाणान्तरावगतं

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374