________________
। १०.६० उल्लासः ] काव्यप्रकाशः ।
यद्यप्यपुष्टार्थस्य दोषताभिधानात्तन्निराकरणेन पुष्टार्थस्वीकारः कृतः, तथाप्येकनिष्ठत्वेन बहूनां विशेषणानामेवमुपन्यासे वैचित्र्यमित्यलङ्कारमध्ये गणितः। व्याजोक्तिश्छद्मनोद्भिन्नवस्तुरूपनिगृहनम् ॥११८॥ निगूढमपि वस्तुनो रूपं कथमपि प्रभिन्नं केनापि व्यपदेशेन यदपाइनुयते सा व्याजोक्तिः। न चैषापहनुतिः। प्रकृतापकतोभयनिष्ठस्य साम्यस्येहासंभवात् । उदाहरणम्
शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लस . द्रोमाञ्चादिविसंस्थुलौखिलविधिव्यासङ्गमङ्गाकुलः। हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं
10 शैलान्तःपुरमातृमण्डलगणैदृष्टोऽवताद्वः शिवः ॥२१॥ अप्र पुलकवेपथू साविकरूपतया प्रमृतौ शैत्यकारणतया प्रकाशितत्वादपलपितस्वरूपौ व्याजोक्ति प्रयोजयतः । किंचित्पृष्टमपृष्टं वा कथितं यत्प्रकल्पते ।
ताहगन्यव्यपोहाय परिसंख्या तु सा स्मृता ॥११९॥ 15 'पुष्टार्थपदं न प्रयोज्यम्' इति पुष्टार्थानि विशेषणान्युपाचानि अत्रेति दोपत्यागमात्रं, न त्वलंकार इत्याशङ्कयाह-यद्यपीति ॥ [३७॥]
न चैषेति । कचित्मकृतनिष्ठं साम्यं, यथा__ सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति ।
. अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिव ॥ -इति समुचितोपमायाम् ॥
कचिद् अपकृतनिष्ठं, यथा कस्यांचित्तुल्ययोगितायाम् । अपड्नुतौ तु प्रकृतामकृतनिष्ठं सादृश्यम् । न च तथेहास्ति, प्रकृतस्यैव सद्भावात् । उद्भटेन तु ब्याजोत्यनभिधानाद् अत्रापि अपड्नुतिरुक्ता ॥
'शैलेन्द्रे 'ति । 'हिमाचलपतिपाद्यमानगौर्या हस्तोपगृहनमाश्लेषः । ततश्च 25 हिमाचलकरस्पर्शोऽप्यस्ति शिवस्य । व्यासको निरोधः, तस्माद् भङ्गो मयम् ॥ सात्त्विकरूपतयेति गौरीकरस्पर्शाद् उद्भिन्नत्वात् ॥११६॥ ३८॥]
किंचित्पृष्टमिति । अन्यव्यवच्छेदाय या उक्तिः सा कस्यचित् परिवर्जनेन .: कुत्रचित् संख्यानं वर्णनीयत्वेन गणनं परिसंख्या । परिवर्जने प्रमाणान्तरावगतं