________________
...
10
:"३१८
काव्यादर्शनामसंकेतसमेतः [१०६० उल्लासः ] प्रमाणान्तरावगतमपि वस्तु शब्देन प्रतिपादितं प्रयोजनान्तरा भावात्सदृशवस्त्वन्तरव्यवच्छेदाय यत्पर्यवस्यति सा मवेत्परिसंख्या। अत्र च कथन पश्नपूर्वकं तदन्यथा च परिदृष्टम्, तयोभयत्र व्यपोह्यमानस्य प्रतीयमानता वाच्यत्वं चेति चत्वारो भेदाः। क्रमेणोदाहरणम्किमासेव्यं पुंसां सविधर्म वधं घुसरितः
किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः। किमाराध्यं पुण्यं किममिलषणायं च करुणा
यदासक्त्या चेतो निरवधिविमुक्त्यै प्रभवति ॥२२॥ किं भूषणं सुदृढमत्र यशो न रत्न
किं कार्यमार्यचरितं सुकृतं न दोषीं। किं चक्षुरपतिहतं धिषणा न नेत्रं ___ जानाति कस्त्वदपरः सदसद्विवेकम् ॥५२३॥ कौटिल्यं कचनिचये करचरणाघरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ।।५२४॥
15 भक्तिभवे न विभवे व्यसनं शास्त्रे न युवतिकामाने ।
चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ॥५२५॥ प्रतिपायेन ज्ञातं प्रयोजनान्तरभावादिति वस्त्वन्तरव्यवच्छेदलक्षणं प्रयोजनं विना यत् प्रयोजनान्तरं नास्ति ।। पृष्टे प्रतीयमानता, यथा - ' किमासेव्यम् ' इति । 'येषां पूर्वोक्तानामासत्त्यावहितत्वेन'। अत्र 'किम् ' इति प्रश्नानन्तरं आगम- 20 ममाणावगतस्य गङ्गातटस्य सेवनमुपनिबद्धम् । कान्तानितम्बसेवानिषेधाय इतरनिषेधश्चात्र प्रतीयते, न तूच्यते । 'चरणयुगम् ' इत्यत्रापि न मृगलोचना' इति गम्यम् । 'पुण्यम्' इति न 'पापम् ' इति गम्यम् । 'करुणा' इति, न तु 'धनम् ' इति व्यपोह्यार्थाः ॥
पृष्टे वाच्यत्वं यथा- 'किं भूषणम् ' इति । 'आर्य वरितम्' इति शिष्टै- 25 रतुष्ठितम् । अत्र 'न रत्नम् ' इत्यादि निषेध्यं शब्देनैव उक्तम् ॥
. अपृष्ट प्रतीयमानता यथा - 'कौटिल्यम्' इति । न तु वाचि हृदये वेति गम्यम् । तथा करादिषु रागो, न परपुरुषे । तथा कुचयुगले काठिन्य, न अवयवान्तरे मानसे च । नयनयोस्तरलत्वं, न तु स्वभावे ॥
अपृष्टे व्यवच्छेद्यस्य वाच्यत्वं यथा- 'भक्तिः' इति । 'युवतिरेव कामा- 30