________________
10
[१०.९० उल्लासः ] काव्यप्रकाशः ।
यथोत्तरं चेत्पूर्वस्य पूर्वस्यार्थस्य हेतुता।
तदा कारणमाला स्यात् उत्तरमुत्तरं प्रति यथोत्तरम् । उदाहरणम्जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षों विनयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते गुणानुरागप्रभवा हि संपदः ॥२६॥ 5
"हेतुमता सह हेतोरभिधानकभेदतो हेतुः' इति हेत्वलंकारोऽत्र न लक्षितः। आयुघृतमित्यादिरूपो ह्येष न भूषणतां कदाचिदईति । वैचित्र्याभावात् ।
अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः।
रम्योऽयमेति संप्रति लोकोत्कण्ठाकरः कालः ॥५२७॥ स्त्रम् ' । एकैकस्योदाहरणत्वाद् दीपकभ्रान्ति कार्या ॥११७॥३९॥]
__हेतुमतेति । रुद्रटेन हेतुरलंकार उक्तः, स न वाच्यः । तथा हि षोढा लक्षणोक्ता - 'कुन्ताः प्रविशन्ति' इत्यादौ उपादानलक्षणा १, 'गायां घोषः' इति लक्षणलक्षणा २, द्विरूपापीयं शुद्धोपचारेणामिश्रत्वात् । 'गौर्वाहीकः' इति गौणी सारोपा ३, 'गौरयम् इति गौणी साध्यवसाना ४, 'आयुर्घतम्' इति 15 शुद्धा सारोपा ५, 'आयुरेवेदम् ' इति साध्यवसाना शुद्धा ६, एषु चतुःषु उपचारमिश्रत्वम् । ततो गौणलक्षणायां सादृश्यसंपत्ययाद् वैचित्र्यं, यथा- 'इयं गेहे लक्ष्मीरियममृतवतिर्नयनयोः' इत्यादौ अतिशयोक्तौ । यत्र तु--
__ आयुर्घतं नदी पुण्यं भयं चौरः सुखं प्रिया ।
वैरं धूतं गुरुर्ज्ञानं श्रेयो ब्राह्मणपूजनम् ॥ -इत्यादौ कार्यकारणसंबन्धोपचारे शुद्धलक्षणासद्भावः, तत्र सादृश्यामा वेन हेतुमात्रस्य वैचित्र्याभावान हेतुरलंकारः ।।
'अविरलकमले 'ति । प्रभूतकमलविकासहेतुत्वाद् वसन्तकाल एव तथा । एवमुत्तरत्रापि । अत्र तत्पुरुषो, न तु 'अविरलानां कमलानां विकासो यत्र' इति बहुव्रीहिः, हेतुहेतुमतोरभेदाभावपसनात् । अत्र तु रुद्रटोदाहते 'काव्यत्वमनु- 25 प्रासादेव' इत्याह- कोमलानुप्रासेति । 'यद्यपि अव्यभिचारितयैव विकासादीनां
नैरन्तर्येण जननमिहोपचारप्रयोजने व्यायं तद् असुन्दरमपि गुणीभूतव्यायनि... बन्धनं भवतीति प्राक्मतिपादितमेव, तथापि अलंकारचिन्तायाः पक्रान्तत्वात् - . तद् अपहुत्यैवावधारणगर्भमिदमभिहितम् , अत एव तटस्थतयैव उक्तं
20