________________
[१०० उल्लासः ] काव्यप्रकाशः।
अधाराधनतोषितेन विभुना युष्मत्सपर्यासुखालोकोच्छेदिनि मोक्षनामनि महामोहे निधीयामहे ॥५०३॥
एषु अपराधद्वये पूर्वापरजन्मनोरै मनम् , भुजपाते शस्त्रोपक्षेपः, महामोहे सुखालोकोच्छेदित्वं च यथाक्रममुक्तरूपो हेतुः। पर्यायोक्तं विना वाच्यवाचकत्वेने वस्तु यत् । 5
वाच्यवाचकमावविविक्तेनावगमनव्यापारेण यत्पतिपादनं, तत्पर्यायेण भजयन्तरेण कथनात्पर्यायोक्तम् । उदाहरणम्
यं प्रेक्ष्य चिररूढापि निवासपीतिरुनिता। मदेनरावणमुखे मानेन हृदये हरेः ॥५०४।।
अौरावणशक्रौ मदमानमुक्तौ जाताविति व्यङ्गयमपि शब्देनो- 10 च्यते । तेन यदेवोच्यते तदेव व्यङ्ग्यम् , यथा तु व्याध न तथोच्यते । यथा गवि शुक्ले चलति दृष्टे 'गौः शुक्लश्चलति'-इति विकल्पः । यदेव दृष्टं तदेव विकल्पयति, न तु यथा दृष्टं तथा ।
अभिनासंसृष्टत्वेन दृष्टम् , भेदसंसर्गाभ्यां विकल्पयति । पदार्थतया उक्तम् ॥११२।। [३१॥]
वाच्येति । वाच्यस्याभिधेयस्य वाचकस्याभिधेयकस्य भावमन्तरेणापि प्रकारान्तरेणार्थसामर्थ्यात्मनावगमनन्यापारणेत्यर्थः ॥ मङ्गयन्तरेणेति । यदेव गम्यते तस्यैव प्रकारान्तरेण अभिधानाद अप्रस्तुतप्रशंसातोऽस्य भेदः। न हि तत्र गम्यस्यार्थस्य भङ्गयन्तरेणाभिधानम् , अपि तु अप्रस्तुतद्वारेण तस्याक्षेपः ।। ___व्यङ्गयमपोति योग्यतया निर्देशः ॥ शब्देनोच्यत इति । भगयन्तररचित- 20 शब्दरभिधानम् ॥ तेनेति । यद् भगवन्तरेणोच्यते तद् व्ययम् ।। यथा त्वेकघनरूपतात्मकपकारेण व्यङ्गधं प्रतीयते, न तथा वक्तुं शक्यते, क्रममाविविकल्पप्रभवानां अन्दानां तथाभिधानशक्तेरभावाद, इत्याह-यथा स्विति ।। एतदेव दृष्टान्वेनाइ-यथा गीति ॥ तदेवेति । एतदीयत्वाद् अनुभवस्य तदाकारतयैव तस्योत्पत्तेः ॥ न तु यथा दृष्टमिति । न हि याशो निर्विकल्पस्य व्यापारस्तान एव 25. मवति विकल्पस्य, अशेषविवक्षावच्छिन्नस्वलक्षणाकारतयानुभवस्योत्पत्तेः ॥ अभिन्नेति । निरंशस्य वस्तुनो भेदसंसर्गयोरभावात् । तौ हि विकल्पस्यैव व्यापारः । स हि अभिन्नमपि वस्तु 'गौः शुक्लश्चलः' इत्येवं भिनत्ति, भिन्नमपि पदार्थ 'अयं गौरयमपि गौः' इत्येवं संसृजति । गोत्व-चलत्व-क्लत्वानामभि
15