SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ३०८ कान्यादर्शनामसंकेतसमेतः [१० द० उल्लासः ]. नमन्मुक्तः संपत्यतनुरहमग्रेऽप्यनतिमान् महेश क्षन्तव्यं तदिदमपराधद्वयमपि ॥५०॥ अनेकपदार्थता यथा प्रणयिसखीसलीलपरिहासरसाधिगते__ ललितशिरीषपुष्पहननैरपि ताम्यति यत् । वपुषि वधाय तत्र तव शस्त्रमुपतिपतः . पैतति शिरस्यकाण्डयमदण्ड इवैष भुजः ॥५०२॥ एकपदार्थता यथाभस्मोद्धृलन भद्रमस्तु भवते रुद्राक्षमाले शुभं हा सोपानपरम्परां गिरिसुताकान्तालयालंकृतिम् । शरीरः । अग्रे भाविनि काले । इह च वृत्ते प्राग्भवकाले भाविनि च काले यदनमनलक्षणमपराधद्वयकारणं तदेवापराधतया परिणतं सद् अत्र वाक्यार्थों जातः। अतो नमनलक्षणेऽत्र अपराधहेतुरेव वाक्यार्थः । अत्र पादत्रयार्थोऽनेकवाक्याथरूपश्चतुर्थपादार्थहेतुत्वेन उक्तः । अत्र चानुमानसद्भावेऽपि न तेन सह वाक्यार्थीभूतस्य हेतोः संसृष्टिव्यवहारः, उभयोरपि भिन्नदेशत्वाभावात् । अनुमानं तु 15 हेतोरुत्थापकतया उपकारकमिति भवत्याणिसंकरः, किंतु हेतुलक्षणमत्रास्तीति एतदभिसंधाय हेतोरिदमुदाहृतम् । अनमनं छपराधद्वयस्य जनक, तदेव चापराधतया परिणतं, यथा घटकारणं मृद् घटरूपतया परिणमति । एकवाक्यार्थता यथा - मनीषिताः सन्ति गृहेऽपि देवतास्तपः क वत्से क च तावकं वपुः। 20 --अत्र वरमाप्तिहेतुभूततपोनिषेधे 'मनीषिताः' इत्येनकवाक्यार्थरूपो हेतुनिर्दिष्टः॥ 'प्रणयी 'ति । अघोरघण्टो मालती घ्नन् माधवेन संबोधितः। अत्र शस्त्रापक्षेपलक्षणो हेतुः ' शस्त्रम् ' इत्युपक्षिप्तः इति च व्यवच्छेदकत्वेन अनेकपदार्यतया उक्तः । यथा वा 25 मृग्यश्च दर्भाङ्कुरनियंपेक्षास्तवागतिशं समबोधयन् माम् । व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ।। -अत्र 'समबोधयन्' इति संबोधने 'व्यापारयन्त्यः' इत्यादिमृगीविशेषणत्वेन अनेकः पदार्थहेतुरुक्तः ॥ 'भस्मे 'ति । अत्र महामोहे सुखालोकोच्छेदित्वं हेतुर्विशेषणद्वारेण एक- 30
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy