Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
३०७
[१० २० उल्लासः | काव्यप्रकाशः ।
दृप्तारिवीरविसरेण वसुंधरेयं
निर्विपलम्भपरिरम्भविधिवितीर्णा ॥४९९॥ अत्र न्यूनेनोत्तमस्य । प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः । तद्भाविक
5 भूताश्च भाविनश्चेति द्वंद्वः । भावः कवेरमिपायोऽस्तीति भाविकम् । उदाहरणम्
आसीदञ्जनमत्रेति पश्यामि तव लोचने । भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिम् ॥५०॥ अत्राघे भूतस्य, द्वितीये माविनो दर्शनम् ।
10 काव्यलिङ्गं हेतोर्वाक्यपदार्थता ॥११४॥ वाक्यार्थता यथावपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा
पुरारे नैवास्मि क्षणमपि भवन्तं प्रणतवान् । प्रलम्भो विगतविरहः परिरम्भविधिर्यस्याः। तथा वितीर्णा यथा त्वां न मुञ्चति' 15 इत्यर्थः । अत्र प्रहारस्वीकारेण न्यूनगुणेन पृथ्वीदानस्य उत्कृष्टगुणस्य विनिमयः ॥१९१॥[२९॥]
___ अतीतानागतयोरर्थयोरलौकिकत्वेन अद्भुतत्वाद् व्यस्तसंबन्धरहितशब्दसंदर्भसमर्पितत्वाच्च प्रत्यक्षायमाणत्वं भाविकं कवेर्भावस्य श्रोतभावाभेदाव्यवसितस्य विद्यमानत्वात् । यद्यपि मुक्तकादावपि एतत् संभवति तथापि प्रबन्ध एवं 20 माविकस्य चारुत्वम् , अत एव अन्यै स्य उदाहरणं दत्तम् । न चेयं सुन्दरवस्तुस्वभाववर्णनात् स्वभावोक्तिः, तस्या लौकिकवस्तुगतसूक्ष्मधर्मवर्णने सर्वसाधारण्येन हृदयसंवादसंभवात् । इह तु लोकोत्तराणां वस्तूनां स्फुटतया ताटस्थ्येन प्रतीतिः, नापिअद्भुतपदार्थदर्शनाद् अतीतानागतप्रत्यक्षत्वपतीते: काव्यलिमिदं लिङ्गलिङ्गिभावेनापतीतेः ॥ [३०॥]
25. ___ यत्र हेतुः कारणरूपो वाक्यार्थगत्या निबध्यते विशेषणत्वेन वा पदार्थगत्या लिङ्गत्वेन तत् काव्यलिङ्गम् । तर्कवैलक्षण्याथै काव्यग्रहणम् । न ह्यत्र व्याप्तिपक्षधर्मोपसंहारादयः क्रियन्ते । वाक्यार्थश्च अनेक एको वा, एवं पदार्थोऽपि ॥
‘वपुः' इति । अनुमितम्' इति । अत्रावयवेऽनुमानालंकारः । 'अतनुर

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374