Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
5
काव्यादर्शनामसंकेतसमेतः [१०० उल्लासः ] यथाएकत्रिधा बससि चेतसि चित्रमत्र
देव द्विषां च विदुषां च मृगीरशां च। . तापं च संमदरसं च रतिं च पुष्णन
जौयाँष्मणा च विनयेन च लीलया च ॥४७७॥ सामान्य वा विशेषो वा तदन्येन समर्थ्यते । यत्र सोऽर्थान्तरन्यासः साधयेणेतरेण वा ॥१०९॥
साधर्म्यण वैधयेण वा सामान्यं विशेषेण यत्समर्थ्यते, विशेषो वा सामान्येन, सोऽर्थान्तरन्यासः । क्रमेणोदाहरणम् -- निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम् ।
पश्यति पित्तोपातः शशिशुभ्रं शङ्कमपि पीतम् ॥४७८॥ समुदायस्य समुदायेन सह संवन्धस्य शाब्दत्वाद् अर्थानुगमपर्यालोचनेन अवयवगतसंबन्धः प्रतीयत इति आर्थत्वम् । तच्च बहुद्दिष्टेषु प्रधानार्थेषु यतो द्विविशेषणयुक्तं द्विगुणं त्रिविशेषणयुक्तं त्रिगुणं वा रम्यं जायत इति तयैव बनीयात् , . इयोः पुनरुदिष्टयोर्षहुशोऽपि विशेषणानि बध्नीयात् ।।
15 'एकत्रिधा' इति । शौयौंष्पविनयलीलानां वर्णनीयत्वेन उद्दिष्टानां यथाक्रम देवद्विद्विद्वन्मृगशामनुनिर्देशः । अत्र त्रिगुणस्वेन उपनिबन्धः ।। द्वयोरुदिष्टयोबहुगुणोपनिबन्धो यथा
दुग्धोदधिशैलस्थौ सुपर्णवृषवाहनौ घनेन्दुरवी ।
मधुमकरध्वजमथनौ पातां वः शाणिशूलधरौ ॥ -अत्र दुग्धोदध्यादीनां शाणिशूलधराभ्यां संवन्धः श्रुत्या समुदायनिष्ठः प्रतीयते, अर्थानगमानुसरणेन तु अवयवानां क्रमसंबन्धावगतिरिति आथै यथा. संख्यम् । द्वयोरुद्देशिपदं परिकल्प्य चत्वारि तद्विशेषणानि ॥ एवं द्विविशेषण योगाद् द्विगुणं ज्ञेयम् ॥१०६।। [२२॥]
__ यत्र हेतोर्हेतुमता सह न्याप्तिगूढत्वात् कथं[ चित् ] प्रतीयते, न तु स्पष्ट- 25 मवभासते तत्रार्यान्तरस्यैव समानासमानजातीयस्यैव वस्तुन उपन्यासनमसौ अर्थान्तरन्यासः ॥ साधर्येण यथा- 'निजे 'ति । अत्राधेऽधै सामान्यं द्वितीया?पातेन विशेषेण समर्थ्यते ॥

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374