________________
३००
काव्यादर्शनामसंकेतसमेतः [१०० उल्लासः ] जातिश्चतुभिर्जात्यायविरुद्धा स्याद् गुणस्त्रिभिः ॥११०॥ क्रिया द्वाभ्यामथ द्रव्यं द्रव्येणैवेति ते दश।। क्रमेणोदाहरणम् -
अभिनवनलिनीकिसलयमृणालवलयादि दवदहनराशिः। सुभग कुरङ्गशोऽस्या विधिवशतस्त्वद्वियोगपविपाते ॥४८२॥ 5गिरयोऽप्यनुन्नतियुनो मरुदप्यवलोऽब्धयोऽप्यगम्भीराः । विश्वभराऽप्यतिलघुर्नरनाथ तवान्तिके नियतम् ।।४८३।। येषां कण्ठपरिग्रहप्रणयितां संप्राप्य धाराघर__ स्तीक्ष्णः सोऽप्यनुरज्यते च कमपि स्नेहं पराप्नोति च । तेषां संगरसङ्गसक्तमनसां राज्ञां त्वया भूपते
पांसूनां पटलैः प्रसाधनविधिनियंते कौतुकम् ॥४८४॥ सृजति च जगदिदमवति च संहरति च हेलयैव यो नियतम् । अवसरवशतः शफरो जनार्दनः सोऽपि चित्रमिदम् ।।४८५॥ सततं मुसलासक्ता बहुतरगृहकर्मघटनया नृपते ।
द्विजपत्नीनां कठिनाः सति भवति कराः सरोजसुकुमाराः ॥४८६।। 15 धाभासो विरोधः । समाधानं तु विना दोष एव ।। जात्यायैरिति । जातिर्जात्या गुणेन क्रियया द्रव्येणेति चत्वारः । गुणो गुणेन क्रियया द्रव्येणेति त्रयः। क्रिया क्रियाद्रव्याभ्यामिति द्वौ। द्रव्यं द्रव्येणेति एकः। एवं दश विरोधभेदाः ॥ रुद्रटस्तु 'नित्यमेव द्रव्याश्रितत्वाद् जातेन जातिद्रव्ययोविरोध' इति नव भेदानाह ।। 'अभिनवे 'ति । 'पवित्रम् ' । अत्र नलिनीत्वादिजातीनां दवदहनत्वजातेश्च 20 अन्योन्यं विरोधो वियोगवशेनेति परिहियते ।।
गुणेन यथा- 'गिरयोऽपि ' इति । 'बलं जवः सैन्यं च'। 'त्वमेव महान् सैन्यवान् गम्भीरोऽतिविस्तारवांश्च' इति तात्पर्यार्थः । अत्र गिरित्वजातेलघुत्वपर्यायानुन्नतिलक्षणेन, मरुत्त्वजातेर्मन्दत्वगुणेन, अब्धित्वजातेनिम्नत्वगुणेन, विश्वंभरावजातेरतिलघुत्वगुणेन विरोधः ।।
25 'येषाम् ' इति। धाराधरः खड्गः । अनुरज्यत इति अनुरागः। शोणितकृतं शोणत्वं च । स्नेहो रुधिरादत्वमपि । अत्र 'पांशूनाम् 'इति पांशुत्वजातेमण्डनक्रियया सह विरोधः ॥
'सजति ' इति। अत्र शफरत्वजातेजनार्दनद्रव्येण सह विरोधः॥ सततम् । इति ।। अत्र काठिन्यसौकुमाययोर्गुणयोर्विरोधः ।।
•
30