________________
5
.
[ १०० उल्लासः
काव्यप्रकाशः। पेशलमपि खलवचनं दहतितरां मानसं मुँतत्वविदाम् । परुषमपि सुजनवाक्यं मलयजरसवत्यमोदयति ॥४८७॥ क्रौश्चादिरुद्दामहषहढोऽसौ यन्मार्गणानर्गलशातपाते । __ अभूभवाम्भोजदलाभिजातः स भार्गवः सत्यमपूर्वसर्गः ॥४८॥ परिच्छेदातीतः सकलवचनानामविषयः ।
पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकमध्वंसादुपचितमहामोहगहनो
विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥४८९।। अयं वारामेको निलय इति रत्नाकर इति
श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः । 10 क एवं जानीते निजकरपुटीकोटरगत
क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥४९०॥ समदमतङ्गजमदजलनिसङ्गतरङ्गिणीपरिष्वङ्गात् ।
क्षितितिलक त्वयि तटजुषि शंकरजूटपिंगापि कालिन्दी ।।४९१॥ . .. 'पेशलम् ' इति । 'सतत्वविदां परमार्थविदाम्' । अत्र पेशलत्वलक्षणगुणस्य 15 दहन क्रियया परुषत्वलक्षणगुणस्य प्रमोदक्रियया च विरोधः ॥
द्रव्येण यथा 'क्रौञ्चे 'ति । [य]न्मार्गणा एव अनर्गल: शातपातः। 'अम्भोजदलाभिजातः' इति अम्भोजदलमख्यो जातः। अत्र दृषदृढत्वलक्षणगुणस्य अम्भोजदलस्वरूपद्रव्येण विरोषः ।।
'जडयति शीतलयति व्यामोहयति च । ताप उष्णत्वं खेदश्च' । अत्र 20 जडीकरणतापकरणयोः क्रिययोर्विरोधो वस्तुसौन्दर्येण. तदमाप्तिपर्यवसानेन परिहियते ॥
‘अयम् ' इति । अत्र जलधिद्रव्येण सह पानक्रियाया विरोधो मुनिगतेन महापमावत्वेन परिहियते ॥
द्रव्यस्य द्रव्येण- 'समरे 'ति । अत्र 'गापि यमुना जाता' इति गङ्गा- 25 यमुनारूपयोः श्वेतकृष्णरूपयोर्द्रव्ययोविरोधो, न तु नदीत्वजातेः, विविक्तविष. यत्वेन विरोधस्य दर्शना । ' श्लेषगर्भवे विरोधमतिभोत्पत्तिहेतुः श्लेषः' इति उद्भटः । मतान्तरे तु संकरः, यथा - 'संनिहितबालान्धकारा भास्वन्मूर्तिश्च' इत्यादौ विरोधेन द्वयोरपि श्लिष्टत्वे । एकस्य च श्लिष्टत्वे 'कुपितमपि कलत्र