________________
३०२
5
काव्यादर्शनामसंकेतसमेतः । १० दे० उल्लासः ] स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम् ॥१११।। स्वयोस्तदेकाश्रययोः । रूपं वर्णः संस्थानं च । उदाहरणम्पश्चाँदङ्ही प्रसार्य त्रिनितिविततं द्र परित्वामुच्चै..
रासज्याभुनकण्ठो मुखमुरसि सेंटी धूलिधूम्रां विध्य । घासग्रासाभिलाषादनवरतचलत्पोथतुण्डस्सुरको
मन्दं शब्दायपानो विलिखति शयनादुत्थितः मां खुरेण ॥४९२॥ वल्लभम् ' इत्यादौ विरोध एवेष्यते । श्लेषवशादेव हि समासादितस्वभावः श्लेषात्मक एव विरोधस्ततः श्लेषेण सहास्य संकरत्वाशङ्का न कार्या, भेदाभावात् । एवमन्यत्रापि परीक्ष्यम् । मिनदेशयोश्च कार्यकारणयोर्विरोवेऽपि 'जस्सेग्गवणो तरस' इत्यादौ असंगतिपभृतिर्वक्ष्यते ॥ [२५] 10
अन्यूनानरितिक्तत्वेन वस्तुस्वभाववर्णनं स्वभावोक्तिः । स्वभावश्च अर्थतादवस्थ्यम् । सा अनुभवैकगोचराऽवस्था यस्य तस्य भावस्तादवस्थ्यम् । अयमर्थः । कविप्रतिभया निर्विकल्पप्रत्यक्षकल्पया विषयीकृता वस्तुस्वभावा यत्र वर्ण्यन्ते सा स्वभावोक्तिरिति सान्वयेयं संज्ञा । तेनअलंकारकृतां येषां स्वभावोक्तिरलं कृतिः।
15 अलंकार्यतया तेषां किमन्यदवशिष्यते ॥ - इति यत् कैश्चिदुक्तं तन्निरस्तमेव ॥ वस्तुनो हि सामान्यस्वभावो लौकिकोऽर्थोऽलंकार्यः कविपतिभासंरम्भविशेषस्तु लोकोतरोऽर्थोऽलंकरणमिति। तथा चाह-- उच्यते वस्तुनस्तावद् द्वैरूप्यमिह विद्यते ॥
20 तत्रैकमस्य सामान्यं यद्विकल्पैकगोचरः । स एव सर्वशब्दानां विषयः परिकीर्तितः ॥ अत एवाभिधेयं ते ध्यामलं बोधयन्त्यलम् ॥ विशिष्टमस्य यद्रूपं तत्प्रत्यक्षस्य गोचरः । स एव सत्कविगिरां गोचरः प्रतिभामुवाम् ॥ वस्तुमात्रानुवादस्तु पूरणैकफलो हि यः ।
अर्थदोषः स दोषज्ञैरपुष्ट इति गीयते ॥ स्वयोरिति । स्वकीययोः क्रियारूपयोः क्रियाव्यापारः । संस्थानं स्वाभाविक रूपम्॥
‘पश्चाद्' इति । ' द्राघयित्वा दीर्थीकृत्य । पोथोऽश्वस्य मुखाग्रम् 1 तुण्डं