________________
२९४
काव्यादर्शनामसंकेतसमेतः [१०० उल्लासः ] . निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया ॥ १०६ ॥ वक्ष्यमाणोक्तविषयः स आक्षेपो विधा मतः।
विवक्षितस्य पाकरणिकत्वादनुपसर्जनीकार्यस्याशक्यवक्तव्यत्वमतिप्रसिद्धत्वं वा विशेष वक्तुं निषेधो निषेध इव यः स वक्ष्यमाणविषय उक्तविषयश्चेति द्विविध आक्षेपः। क्रमेणो- 5 दाहरणम्
या शैशिरी श्रीस्तपसा मासेनैकेन बिभ्रती ।
तपसा तां सुदीर्घेण दूराद् विदधतीमधः ॥ 'तपो माघमासः, अन्यत्र तु अभ्युदयहेतुः कृच्छाचरणम् ।' इवादय .. अनुपात्ता अपि सामर्थ्यगम्याः। अत्र ‘तपसा ' इति श्लिटोक्तियोग्य पदं पृथगु- 10 पात्तम् , अतोऽयमपि लेषव्यतिरेक आक्षिप्ते औपम्ये उभयोपादाने सति ॥ . यथावा
यद्यप्यान]नुपचरितस्तथापि तव नाच्युतस्तुली [स] भवेत् ।
स हरिर्नाम्ना देवः स हरिर्वरतुरगनिवहेन ।। देवशब्दः प्रकरणाद् युष्मदर्थे । हेत्वोरुक्तौ आयौँपम्यम् । अत्रापि श्लिष्टो- 15 क्तियोग्यस्य पदस्य पृथगुपादानम् ॥ एवमन्येऽपि एकादश भेदाः ।।
ननु श्लेषव्यतिरेकयोरन्यत्र लब्धसत्ताकत्वात श्लेषोपकतत्वे व्यतिरेकस्याङ्गाजिमावे संकरत्वं स्यात् । सत्यम् , श्लेषगीकारेण व्यतिरेकलक्षणमंशमाश्रित्य एवंविधे श्लेषव्यतिरेकापरनामत्वान संकरः। ततस्तदनुचरणार्थमेवैष प्रकारो व्यतिरेकपकारतया व्यवस्थाप्यते ।। [१८॥] ..
अशक्यवक्तव्यत्वमिति वक्ष्यमाणविषयस्य लक्षणम् ॥ अतिप्रसिद्धत्वमिति उक्तविषयम् ॥ निषेध इवेति । न तु निषेध एव, किंतु पाकरणिकस्यार्थस्य प्रस्तुतत्वादेव प्रधानस्य वक्तुमिष्टस्य विशेषपतिपतये निषेधाभासः। विधानाईस्प निषेधः कर्तुं न युज्यत इति निषेधाखेन विशेष एव तात्पर्यमित्यर्थः । स च निषेधो वक्ष्यमाणस्य स्यादिति द्वयी गतिः ॥
25 . ननु, उक्तविषयत्वे कथं वक्तुमिष्टत्वं स्यात् । सत्यम् , उक्तमप्यादौ वक्तुमिष्टमेक, विशेषस्य च शब्दानुपात्तत्वाद् आदिमत्वम् । तत्र वक्ष्यमाणविषये कथनमेव निषिध्यते, उक्तविषये च वस्तु निषिध्यते ।।