________________
[१० १० उल्लासः काव्यप्रकाशः ।
ए एहि किंपि कीरवि करण निकिव पणामि अलमहवा । अवियारिजकज्जारम्भआरिणी मरउ' भणिस्सम् ।।४७१॥ ज्योत्स्ना मौक्तिकदाम चन्दनरसः शीतांशुकान्तद्रवः
कपूर कदली मृणालवलयान्यम्भोजिनीपल्लवाः । अन्तर्यानसमास्त्वया प्रभवता तस्याः स्फुलिङ्गोत्कर
ध्यापाराय भवन्ति इन्त किमनेनोक्तेन न बमहे ।।४७२॥ क्रियायाः प्रतिषेधेऽपि फलव्यक्तिविभावना ॥१०७॥
हेतुरूपक्रियाया निषेधेऽपि तस्फलप्रकाशनं विभावना । यथा'ए एहि' इति । 'अयि एहि किमपि कस्याश्चित् कृतेन निष्कप भणामि अळमयवा' । 'अवियारिअ ' इति । 'कार्य त्वदनुरागलक्षणं यान्यासक्तमपि स्वाम 10 मिलपति' इत्यर्थः । अत्र 'न भणिस्सम्' इति मणितिनिषेधे ‘त्वददर्शनात् तास्ता अवस्थाः समुन्मिपन्ति या वक्तुमपि न शक्यन्ते' इति विशेषः प्रतीयते निषेधस्य निषेध इच, न तु निषेध एव तेनेष्टमर्थ प्रतिषेधव्याजेन उत्कर्षयति, मन्मयमाहात्म्यावस्थाविशेषाणां च वक्ष्यमाणतया सूचनमिति वक्ष्यमाणविषय आक्षेपः॥
15 • ज्योत्स्ना ' इति । अत्र 'किमनेनोक्तेनेति कैमर्थक्यपरमालोचनं न ब्रूमः' इति निषेधमुखेन त्वदप्राप्तौ ज्योत्स्नादयः स्फुलिङ्गव्यापारहेतवस्तस्या भवन्तीत्यतिमसिद्धोऽयमर्थोऽन्यत्रापि परिदृष्टत्वात् । स्फुलिङ्गव्यापाराणां चानन्त्यात्मको विशेषोऽभिधित्सितः, तस्य च किमनेनोक्तन' इति सामान्येन उपक्रान्तस्य अधुना निषेधवशेन असंविज्ञानपदनिवन्धनत्वमित्युक्तविषयता। तस्माद् इष्ट-20 निष्ठस्य निषेधाभासस्य विध्युन्मुखस्य आक्षेपत्वमिति स्थितम् । यदाह तिलकः
तदिष्टस्य निषेधत्वमाक्षेपोक्तेर्निबन्धनम् ।
सौकर्येणान्यकृतये न निषेधक्यता [?] पुनः । अन्यकृतये विशेषविध्यर्थम् ॥ [१९॥]
हेतुरूपेति । क्रिया हि कार्य निष्पादयतीति सैव हेतुः । सर्वेषां फलभूतानां 25 . क्रियैव अव्यवहितं कारणं, क्रियामुखेन कारणेभ्यः कार्योत्पत्तेः । अन्यैश्च 'क्रियाफलमेव कार्यम्' इति वैयाकरणैरेव अभ्युपगम्यते, न सर्वैरिति क्रियापद स्थाने कारणग्रहणं कृतम् । सामान्येन विशेषमनपेक्ष्य फलमकाशनमिति कार्यस्य कविना प्रतिपादनं, न तु भवनकारणमन्तरेण कार्योत्पत्तेरसंभवाद् ।। इह कारणा