SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ २९६ काव्यादर्शनामसंकेतसमेतः [१०० उल्लास ] कुसुमितलताभिरहताप्यधत्त रुजमलिकुलैरदष्टापि । परिवर्तते स्म नलिनीलहरीभिरलोलिताप्यघूर्णत सा ॥४७३।। न्वयव्यतिरेकानुविधानात् कार्यस्य कारणमन्तरेण असंभवः । यदि तु कयाचिद् भङ्गया तथाभावोपनिबन्धः, तदा विभावना। सा च भङ्गिः प्रसिद्धतरकारणानु. पलब्धिः । अप्रसिद्धं तु कारणं वस्तुतोऽस्त्येव । अस्याश्च न विरोधरूपत्वं, विरोधे 5 द्वयोरपि समानबलयोः परस्परवाधान् । अत्र तु कार्योत्पत्तिरेव कारणप्रतिषेवेन . षाध्यमाना प्रतिभाति. न तु कारणप्रतिषेधस्य कार्योत्पत्त्यापि बाघः । कारणप्रतिषेधस्य हि बाधः प्रतिभासमानोऽपि झप्त्यपेक्षो, ज्ञप्तिश्च उत्पत्त्यपेक्षया दवीयसी न विभावनां प्रयोजयति ।। 'ज्ञप्त्यपेक्ष' इति-यथा हि कार्यमुत्पद्यमान प्रेव कारणप्रतिषेधेन बाध्यत इति भवत्युत्पत्त्यपेक्षस्तत्र बाधस्तथा नोत्पधमान एव 10 कारणप्रतिषेधः कार्योत्पत्यापि बाध्यते, अपि तु उत्पन्नस्य तस्य बाधस्तया ज्ञाप्यत इति कारणप्रतिषेधबाधो ज्ञप्त्यपेक्ष एव ॥ 'ज्ञप्तिश्च' इति कारणप्रतिषेधबाधज्ञानं च । 'दवीयसी' इति पश्चाद्भावित्वेन ॥ भवतु वात्रापि सामान्येन परस्परं बाधस्तथापि न विरोधरूपत्वं हेतुफलमा विशेषमाश्रित्य प्रवर्तनाद अस्यास्तदपवादत्वात् ।। एवं विशेषोक्तौ कार्यभावेन कारणसत्ता एव बाध्य- 15 मानत्वमुन्नेयम् । येन सापि अन्योन्यबाधत्वानुमाणिताद् विरोधाद् भिद्यते । इयं च विशेषोक्तिवद् अनुक्तोक्तनिमित्तभेदा द्विधा, यथा-'कुसुमिते 'ति । अत्र कुसुमितलताहननादीनां कारणानामभावेऽपि रुग्धारणादीनि कार्याणि प्रकाशितानि । तत्र विरहित्वलक्षणं निमित्तं गम्यमानम् ॥ उक्तनिमित्ता यथा असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य। कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ॥ -अत्र द्वितीयपादे मदस्य यद् आसवाख्यं करणं प्रसिद्धं तदभावेऽपि यौवनहेतुकत्वेन उपनिबन्ध उक्तः। 'मदो मत्तता हर्षश्चेति'। मदस्य द्वैविध्येऽपि अभेदाध्यवसायकत्वमिति अतिशयोक्त्यनुपाणिता विभावना । ' असंभृतं मण्ड- 25 नम्' इति 'कामस्य पुष्पव्यतिरिक्तमस्त्रम् ' इत्यत्र च संभरणस्य पुष्पाणां च मण्डनमस्त्रं च पति कारणत्वात् तदभावे विभावना ॥ 'एकगुणहानौ विशेषोक्तिरियम्' इति वामनीयाः । 'रूपकमेव अधिरोपितवैशिष्टयम्' इति अन्ये । 'आरोप्यमाणस्य मण्डनादेः प्रकृते वयसि संभवात् परिणाम' इति तु अद्यतनाः ।। १०३-१०५ ॥ [२०॥] 30 20
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy