________________
२२७
[१०६० उल्लासः ] काव्यप्रकाशः।
विशेषोक्तिरखण्डेषु कारणेषु फलावचः।
मिलितेष्वपि कारणेषु कार्याकथनं विशेषोक्तिः । अनुक्त. निमित्ता, उक्तनिमित्ता, अचिन्त्यनिमित्ता च । क्रमेणोदाहरणम्निद्रानिवृत्तावुदिते घुरत्ने सखीजने द्वारपदं पराप्ते ।। श्लयीकृताश्लेषरसे भुजङ्गे चचाल नालिङ्गनतोऽङ्गना सा ॥४७४॥ 5
कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने। नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ॥४७५॥ स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । - हरतापि तनुं यस्य शंभुना न हृतं बलम् ।।४७६।।
यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः ॥१०८॥ 10
एतद्विपर्ययरूपा विशेषोक्तिरिति । फलस्य कार्यस्य अभणनम् । इह मिलितानि कारणानि नियमेन कार्यमुत्पादयन्ति । यत्तु सत्यपि सामग्र्ये कार्य न जनयन्ति सा कंचित् विशेषमभिव्यक्तुं प्रयोज्यमाना विशेषोक्तिरनुक्तोक्ताचिन्त्यनिमित्तत्वेन त्रिधा ॥
'निद्रे 'ति । अत्र निद्रानिवृत्यादय आलिनचनहेतवस्तेषु सत्स्वपि 15 आलिङ्गनचलनलक्षणं कार्य नोक्तं, मन्मथोन्मायवल्लभस्वप्नसमागमादि च निमित्तं नोक्तम् ॥
. कर्पूरः' इति । अत्र सत्यपि दाहलक्षणेऽविकले कारणेऽशक्तत्वाख्यस्य कार्यस्य नोक्तिः । अवार्यवीर्यत्वं च निमित्चत्वेन उक्तम् ॥
. 'स एकः' इति । अत्र तनुहरणे कारणे सत्यपि बलहरणस्य कार्यस्य 20 अनुक्तौ निमित्तमचिन्तनीयमेव । प्रतीत्यगोचरत्वात् । अतैलपूराः सुरतपदीपाः' इत्यादि तु रूपकम् । एकगुणहानिकल्पनायां न पृथग् विशेषोक्तिलक्षणारम्भ प्रयोजयति ॥ [२१॥]
उद्दिष्टानामर्थानां पश्चानिर्दिष्टैरथैः क्रमेण संबन्धो यथासंख्यं, संख्योपलक्षि- . तक्रमानतिक्रमेण पदार्थानामन्वयसमाश्रयात् । अन्ये तु इमं क्रमसंज्ञमाहुः ।। 25 ऋमिकाणामिति बहुवचनमतन्त्रम् । तेन द्वयोरपि अर्थयोर्यथासंख्यम् । तच शाब्दमार्थ चेति द्विधा । यत्र असमस्तानां पदानामसमस्तैः पदैरर्थद्वारकः संबन्धस्तत्र क्रमसंबन्धस्य अतिरोहितस्य प्रत्येयत्वाच्छाब्द, यत्र तु समासः क्रियते तत्र
३८