Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 13
________________ ( २ ) यस्याः कृपालाबुसमाश्रयेण मन्दोऽपि पारं श्रयति श्रुतान्धेः । वाङ्मालया सा भुवनं पुनाना सरस्वती यच्छतु सुबुद्धिम् ॥ ४ ॥ कृपापूर्णदृशैतेषां स्वान्येषां हितकाम्यया । श्री एकविंशतिस्थानटीकां कुर्वे यथामति ||५|| शब्दार्थयोर्न काठिन्यं ग्रन्येऽत्र विद्यते कचित | स्वपर भ्रान्तिनाशाय प्रयत्नो मे तथाप्ययम् ॥ ६ ॥ दुःप्रापपाप्य नृत्वं यतितव्यं श्रेयसे यथाशक्त्या । इति शिष्टगिरा कुवन् मूढोऽप्येनां न हास्ये स्याम् ||७|| इह किल चूर्णपेषं पिष्टाऽनल्पिष्ठजन्मजरामरणाधिव्याधिस्वेष्ट विरहानिष्टसंयोगदारिद्र्यादिदुरन्तदुःखनिबन्धनघनिष्ठदुष्टकर्माष्टकानां, निरावरणाऽप्रतिहताऽनन्तविमलकेवलालोकालोकिताविकलसक ललोकालोकानां, करालकलिकालव्यालवदनविवरान्तर्वर्त्तिभव्यजन्तु जातपरित्राणकर्मकर्मठसदुपदेशपीयूषरसपूरपूरितत्रिविष्टपानां, भक्तिमरानम्रनरसुरासुरेश्वरनिकरकिरीटकोटिस्तबकितरत्नरोचि निचयरोचिष्णुतरचरणारविन्दयुगलानामासन्नोपकारिणामृषभादिचतु

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80