Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai
View full book text
________________
(४७) तनमिजिनलक्षणा द्वादश तीर्थकृतः प्रत्येकमेकैकसहस्रपरिवृताः सिद्धाः परिनिष्ठिताऽष्टकर्मभरा बभूवुरिति गाथात्रयार्थः ॥ ६३॥६४।६५ ॥
इदानीं शास्त्रसमाप्तिं चिकीर्षुरुपसंहन्नाहइय इक्कवीसठाणा उद्धरीय सिद्धसेणसूरीहिं । चउचीसजिणवराणं असेससाहारणा भणिया ॥ ६६ ॥
व्याख्या-'इतिः' परिसमाप्तौ, श्रीऋषभादिचतुर्विंशतिजिनवराणामशेषसाधारणान्यमून्येकविंशतिस्थानानि समयसमुद्रादुद्धत्य नतु स्वमनीषया श्रीसिद्धसेनसूरिभिर्भणितानि कथितानीति गाथार्थः
इति श्रीमत्तपागच्छगगनाङ्गणदिनमणिविद्वच्चूडामणिजैनाचार्यन्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वराऽपरनामश्रीमदात्मारामजीमहाराजशिष्यरत्नदक्षिणविहारिश्रीमदमरविजयमनिपुङ्गवचरणारविन्दचञ्चरीकायमानचतुरविजयमुनिप्रणीता श्रीसिद्धसेनसूरिप्रणीतै कविंशति, स्थानप्रकरणस्य श्रेयःयङ्का बोधदीपिकानामटीका समाप्तिमफाशीत् ।

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80