Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai
View full book text
________________
( ३ )
या धर्मद्वितयं समुन्नयति च प्राणस्पृशां बन्धनद्वन्द्वं ध्वंसयते च दुर्गतियुगद्वारागलासन्निभा । दुर्ध्यानद्वितयं भिनत्ति विमलध्यानद्वयं पुष्यति श्रेयः श्रीनिचयं दिशत्वनुदिनं सा नो द्वितीया तिथिः ॥५॥
अथ तृतीया चैत्यवन्दनम् ॥ ३ ॥
चैत्रार्जुने दुस्तपसेतघातिर्ज्ञानं ययौ कुन्थुजिनोऽथ यस्याम् । श्रेयांसमुक्तिर्नभसोऽसि च सा नस्तृतीया तनुतातिथिः शम् ॥ १॥ माघार्जुने श्रीविमलस्य जन्म श्रीधर्मनाथस्य च यत्र जज्ञे । ऊर्जार्जुने श्रीसुविधिर्जिनोऽभूत् सा नस्तृतीया तनुतात्तिथिः शम्॥२॥
दुश्यात्रितयं भिनत्ति विमलं लेश्यात्रयं पुष्यति
दुःशल्यत्रितयं विनाशयति या पुष्णाति गुप्तित्रयम् । त्रैलोक्यापद प्रदानचतुरा भव्याङ्गभाजां शुभा
श्रेयः श्रीततिमातनोतु नितरां सा नस्तृतीया तिथिः ॥ ३॥
अथ चतुर्थीचैत्यवन्दनम् ॥ ४ ॥
श्रेयः श्रियां धाम जगाम यत्र ज्ञानं च्युतिं मध्वसिते च पार्श्वः । तपस्यशुक्ले च्यवनं च मल्लिः सा नश्चतुर्थी शिवतातयेऽस्तु ॥ १॥

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80