Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai
View full book text
________________
(२)
अथ द्वितीयाचैत्यवन्दनम् ॥ २॥ श्रेयःश्रियां वसतिवेश्म जिनोपदिष्टा
दुष्कर्ममर्मभिदुरा भविदेहभाजाम् । याऽऽनन्दमङ्गलकरी वृजिनौघहन्त्री
सा नस्तिथिः शिवसुखं ददतां द्वितीया ॥१॥ जन्माऽभिनन्दनजिनः समवाप माघ
शक्लेऽथ केवलमवाप च वासुपूज्यः । यस्यां तपस्यधवले च्यवनं तथाऽरः
सा नस्तिथिः शिवसुखं ददतां द्वितीया ॥२॥ यस्यां च माधवशितौ विगताष्टकर्मा
श्रीशीतलो जिनपतिः समवाप मोक्षम् । लेभे नभःसितदले सुमतिश्च्युतिं च
सा नस्तिथिः शिवसुखं ददतां द्वितीया ॥३॥ इत्याद्यनेकजिनराट्च्यवनादिकानि
कल्याणकानि दुरितौघविना कानि । यस्यां बभूवुरनिशं मिनभक्तिभानां
सा नस्तिथिः शिवसुखं ददतां द्वितीया ॥४॥

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80