SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ (२) अथ द्वितीयाचैत्यवन्दनम् ॥ २॥ श्रेयःश्रियां वसतिवेश्म जिनोपदिष्टा दुष्कर्ममर्मभिदुरा भविदेहभाजाम् । याऽऽनन्दमङ्गलकरी वृजिनौघहन्त्री सा नस्तिथिः शिवसुखं ददतां द्वितीया ॥१॥ जन्माऽभिनन्दनजिनः समवाप माघ शक्लेऽथ केवलमवाप च वासुपूज्यः । यस्यां तपस्यधवले च्यवनं तथाऽरः सा नस्तिथिः शिवसुखं ददतां द्वितीया ॥२॥ यस्यां च माधवशितौ विगताष्टकर्मा श्रीशीतलो जिनपतिः समवाप मोक्षम् । लेभे नभःसितदले सुमतिश्च्युतिं च सा नस्तिथिः शिवसुखं ददतां द्वितीया ॥३॥ इत्याद्यनेकजिनराट्च्यवनादिकानि कल्याणकानि दुरितौघविना कानि । यस्यां बभूवुरनिशं मिनभक्तिभानां सा नस्तिथिः शिवसुखं ददतां द्वितीया ॥४॥
SR No.022250
Book TitleEkvinshatisthan Prakaranam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherKhimchand Fulchandbhai
Publication Year1924
Total Pages80
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy