SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ( ३ ) या धर्मद्वितयं समुन्नयति च प्राणस्पृशां बन्धनद्वन्द्वं ध्वंसयते च दुर्गतियुगद्वारागलासन्निभा । दुर्ध्यानद्वितयं भिनत्ति विमलध्यानद्वयं पुष्यति श्रेयः श्रीनिचयं दिशत्वनुदिनं सा नो द्वितीया तिथिः ॥५॥ अथ तृतीया चैत्यवन्दनम् ॥ ३ ॥ चैत्रार्जुने दुस्तपसेतघातिर्ज्ञानं ययौ कुन्थुजिनोऽथ यस्याम् । श्रेयांसमुक्तिर्नभसोऽसि च सा नस्तृतीया तनुतातिथिः शम् ॥ १॥ माघार्जुने श्रीविमलस्य जन्म श्रीधर्मनाथस्य च यत्र जज्ञे । ऊर्जार्जुने श्रीसुविधिर्जिनोऽभूत् सा नस्तृतीया तनुतात्तिथिः शम्॥२॥ दुश्यात्रितयं भिनत्ति विमलं लेश्यात्रयं पुष्यति दुःशल्यत्रितयं विनाशयति या पुष्णाति गुप्तित्रयम् । त्रैलोक्यापद प्रदानचतुरा भव्याङ्गभाजां शुभा श्रेयः श्रीततिमातनोतु नितरां सा नस्तृतीया तिथिः ॥ ३॥ अथ चतुर्थीचैत्यवन्दनम् ॥ ४ ॥ श्रेयः श्रियां धाम जगाम यत्र ज्ञानं च्युतिं मध्वसिते च पार्श्वः । तपस्यशुक्ले च्यवनं च मल्लिः सा नश्चतुर्थी शिवतातयेऽस्तु ॥ १॥
SR No.022250
Book TitleEkvinshatisthan Prakaranam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherKhimchand Fulchandbhai
Publication Year1924
Total Pages80
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy