Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai
View full book text
________________
( ५ )
पञ्चेषु द्विपञ्चवक्त्रसदृशा या प्राणिनां पञ्चमज्ञानोल्लासकरी वशं नयति या पञ्चेन्द्रियार्थव्रजम् । या पञ्चाssवरोधनातिचतुरा पञ्चप्रमादापहा श्रेयः श्रीततिमातनोतु नितरां सा पञ्चमी नस्तिथिः ||५||
अथ षष्ठीचैत्यवन्दनम् || ६ ॥
श्रीशीतलो राधशितौ च्युतोऽर्हन् श्रेयांसनाथोऽप्यथ शुक्रकृष्णे । वीरच्युतिर्यत्र शुचौ वलक्षे श्रेयः श्रिये नस्तिथिरस्तु षष्ठी ॥ १ ॥ नमः सिते नेमिजिनस्य दीक्षा मार्गासितेऽभूत् सुविधेव यस्याम् । पद्मप्रभो माघशितौ च्युतश्च श्रेयः श्रिये नस्तिथिरस्तु षष्ठी ॥२॥ ज्ञानी सुपार्श्वोऽथ तपस्यकृष्णे पौषार्जुनेऽभूद्विमोऽपि तद्वत् । यस्यां परिज्ञातसमस्तभावः श्रेयः श्रिये नस्तिथिरस्तु षष्ठी ॥ ३ ॥
अथ सप्तमाचैत्यवन्दनम् ॥ ७ ॥
श्रेयःश्रियां सद्मनि यत्र जज्ञे धर्मच्युतिर्माधवशुक्लपक्षे । आषाढकृष्णे विमलः शिवेऽगात् सा सप्तमी नोऽस्तु तिथिः समृद्ध्यै ॥ १ चन्द्रप्रभो मोक्षगान्नभस्यकृष्णे च्युतः शान्तिजिनोऽपि यस्याम् । नभोऽसितेऽनन्तजिनच्युतिश्च सा सप्तमी नोऽस्तु तिथिः समृद्ध्यै ॥२॥
2

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80