Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai
View full book text
________________
(९) अथ द्वादशीचैत्यवन्दनम् ॥१२॥ श्रेयःश्रियां भर्तुरभीष्टदातुः शुक्रे सुपार्श्वस्य जनिर्वलक्षे । राधाजुने श्रीविमलच्युतिश्च सा द्वादशी नोऽस्तु तिथिः शिवाय ॥१॥ नेमिच्युतिः कार्तिककृष्णपक्षे पद्मप्रभस्यापि जनिश्च यस्याम् । उर्जार्जुने ज्ञानमरः प्रपन्नः सा द्वादशी नोऽस्तु तिथिः शिवाय ॥२॥ माघासिते शीतलजन्मदीक्षेऽभिनन्दनो माघसितेऽनगारः । चन्द्रप्रभः पौषशितौ प्रसूतः सा द्वादशी नोऽस्तु तिथिः शिवाय ॥३॥ मल्लिः शिवं सुव्रत आप दीक्षां सिते तपस्येऽप्यसिते जिनोऽभूत् । श्रेयांसजन्माऽपि तपस्यकृष्णे सा द्वादशी नोऽस्तु तिथिः शिवाय ॥४॥ नम्रद्वादशकल्पवासवनता जन्मादिभाजो जिना
यस्यां द्वादश सद्वतानि गृहिणां नाशाय दुष्कर्मणाम् । भिक्षूणां प्रतिमास्तथा वरतपोभेदाञ्जगुर्दादश
श्रेयःश्रीततिमातनोतु नितरां सा द्वादशी नस्तिथिः ॥५॥
अथ त्रयोदशीचैत्यवन्दनम् ॥ १३ ॥ चैत्रार्जुनेऽपश्चिमतीर्थभर्तुर्वीरस्य यस्यां जननं बभूव ।। श्रेयांसदीक्षा च तपस्यकृष्णे त्रयोदशी साऽस्तु तिथिः श्रिये नः ॥१॥

Page Navigation
1 ... 74 75 76 77 78 79 80