Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 77
________________ ( १० ) वैशाखकृष्णे समवाप यस्यामनन्त जित्तीर्यपतिस्तु जन्म । वैशाखशुक्लेऽप्यजितश्वयुतोऽर्हन् त्रयोदशी साऽस्तु तिथिः श्रिये नः २ ज्येष्ठासिते जन्म शिवं च शान्तेः सुपार्श्वदीक्षाऽप्यथ शुक्रशुक्ले । माघासिते श्रीवृषभाङ्कमोक्षः त्रयोदशी साऽस्तु तिथिः श्रिये नः ॥ २ ॥ पद्मप्रभः कार्त्तिककृष्णपक्षे दीक्षां ललौ त्यक्तगृहिप्रपञ्चः । पौषासिते प्रव्रजितश्च चन्द्रस्त्रयोदशी साऽस्तु तिथिः श्रिये नः ॥४ ॥ माघार्जुने धर्मजिनस्य दीक्षाऽभूद्यत्र कल्याणकरी जनानाम् । श्रेयः श्रियामद्भुतमेकमोकस्त्रयोदशी साऽस्तु तिथिः श्रिये नः ॥५॥ अथ चतुर्दशी चैत्यवन्दनम् ॥ १४ ॥ वैशाखकृष्णे सुखदायि यत्राऽनन्तो व्रतं ज्ञानमपि प्रपेदे | श्रेयः श्रियां धाम जनिं च कुन्थुस्तिथिः श्रिये साऽस्तु चतुर्दशी नः १ आषाढशुक्ले विगताष्टकर्मा श्रीवासुपूज्यः शिवमाप यस्याम् । ज्येष्ठासिते शान्तिजिनश्च दीक्षां तिथिः श्रिये साऽस्तु चतुर्दशी नः २ श्रीशीतलो ज्ञानमवाप कृष्णे पौषेऽथ शुक्लेऽप्यभिनन्दनश्च । मार्गार्जुने सम्भवजन्म यत्र तिथिः श्रिये साऽस्तु चतुर्दशी नः ॥३॥ जगाम यत्राभिनवार्कतेजाः श्रीवासुपूज्यो जननं जिनेन्द्रः । तपस्यकृष्णेऽमरवृन्दवन्द्यस्तिथिः श्रिये साऽस्तु चतुर्दशी नः ॥ ४ ॥

Loading...

Page Navigation
1 ... 75 76 77 78 79 80