Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai
View full book text
________________
श्रीवर्द्धमानश्चरमो जिनेन्द्रोऽभूत् केवली माधवशुक्लपक्षे । वैशाखकृष्णे नमिराप मोक्षं सा श्रेयसे स्ताद्दशमी तिथिनः ॥२॥ दशप्रकारं मुनिराजधर्म पुष्णाति याऽसंवरभेददक्षा । मिथ्यात्त्वभेदांश्च दशाऽपि हन्ति सा श्रेयसे स्तादशमी तिथिनः ॥३॥
अथैकादशीचैत्यवन्दनम् ॥ ११ ॥ श्रेयःश्रियां मन्दिरमिन्दिरालीलीलालयं कर्ममहीध्रवज्रम् । प्रोक्ता हितायाऽङ्गभृतां जिनैर्या सैकादशो नो वितनोतु मंद्रम् ॥१॥ यस्यां मधुश्वेतदले विघातिर्ज्ञानं प्रपेदे सुमतिर्जिनेन्द्रः । पद्मप्रभो मोक्षमशुभ्रमार्गे सैकादशी नो वितनोतु भद्रम् ॥२॥ श्रीमल्लिनाथो मृगशीर्षशुक्ले जनि च दीक्षामरमल्लिनाथौ । ज्ञानं श्रितौ मल्लिनमी च यस्यां सैकादशी नो वितनोतु भन्द्रम् ॥३॥ पौषासिते पार्श्वजिनस्य दीक्षा पौषार्जुने ज्ञानमितोऽजितश्च । तपस्यकृष्णे ऋषभो निनोऽभूत् सैकादशी नो वितनोतु मन्द्रम् ॥४॥ कृत्वैकादश वत्सरान् भवभृतो यस्यास्तपो निर्मल
न्यायोपार्जितया श्रिया विदधते पूर्णे तदुद्यापनम् । भक्त्यैकादश लेखयन्ति चतुरैरेकादशाङ्गप्रतीः
श्रेयःश्रीतातमातनोतु नितरां सैकादशी नस्तिथिः ॥५॥

Page Navigation
1 ... 73 74 75 76 77 78 79 80