Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai
View full book text
________________
(११) आत्मानन्दविधायिनी मवभृतां कल्याणसम्पादिनी
दुष्कर्मोंधविनाशिनी च निविडध्वान्तावलिध्वंसिनी। या मुक्तेरभिलाषिभिश्व चतुरैः सेव्यामरैर्मानवैः श्रेयाश्रीततिमातनोतु नितरां सा नश्चतुर्दश्यरम् ॥ ५ ॥
अमावसीचैत्यवन्दनम् ॥ श्रेयःश्रीणां राजिभिर्वर्द्धमानस्तीर्थाधीशः कार्तिके वर्द्धमानः । मोक्षं लेभे शाश्वतानन्दधाम साऽमावास्या सत्तिथिनः श्रिये स्तात् १ ज्ञानी जज्ञे श्रीसमुद्रावनीशवंशक्षीराम्भोधिवृद्धिक्षपेशः । नेमिर्यस्यामाश्विने विश्वपूज्यः साऽमावास्या सत्तिथिनः श्रिये स्तात् २ माघे मासे घातिकर्मण्यतीते श्रीश्रेयांसः केवली यत्र जज्ञे । दीक्षामापद्वासुपूज्यस्तपस्ये साऽमावास्या सत्तिथिनः श्रिये स्तात् ३
__ अथ पूर्णिमाचैत्यवन्दनम् । पद्मप्रभो ज्ञानमवाप चैत्रे श्रीसुव्रतोऽर्हन्नभसि च्युतश्च । नमिच्युतिश्चाश्विनमासि यस्यां सा पूर्णिमा नः श्रियमातनोतु ॥१॥ दीक्षां प्रपेदे मृगशीर्षमासे श्रीसम्भवस्तीर्थपतिस्तु यस्याम् । केवल्यभूद्धर्मजिनस्तु पौषे सा पूर्णिमा नः श्रियमातनोतु ॥२॥ श्रेयःश्रीणां धाम कल्याणकानि यस्यामित्यादीनि तीर्थङ्कराणाम् । वर्षे सव्ये भारते जज्ञिरेऽत्र सा शं पुष्यात् पूर्णिमा सत्तिथिनः ३

Page Navigation
1 ... 76 77 78 79 80