Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 73
________________ (६) चन्द्रप्रभो ज्ञानमवाप यत्र मोक्षं सुपार्श्वश्च तपस्यकृष्णे । श्रेयःश्रियं प्राप नतामरेन्द्रः सा सप्तमी नोऽस्तु तिथिः समृद्ध्यै ॥३॥ अथाऽष्टमीचैत्यवन्दनम् ॥ ८॥ श्रेयःश्रियां धाम तपस्यशुक्ले श्रीसम्भवस्य च्यवनं तु यस्याम् । नेमिः शिवोऽगाच्छूचिशुक्लपक्षे सैपाऽष्टमी स्ताच्छिवशर्मदा नः ॥१॥ चैत्रासिते नाभिनरेन्द्रसूनोर्यस्यां जनिः शर्मकरी च दीक्षा । जन्माऽजितो मावसिते प्रपन्नः सैषाऽटमी स्ताच्छिवशर्मणे नः ॥२॥ भेजे शिवं माधवशुक्लपक्षेऽभिनन्दनः श्रीसुमति निं च । ज्येष्ठासिते सुव्रतजन्म यत्र सैषाऽष्टमी स्ताच्छिवशर्मदा नः ॥३॥ नभोऽस्तेि श्रीनमिनाथजन्म नभःसिते यत्र च पार्श्वमुक्तिः । च्युतः पार्थश्च नभत्यकृष्णे सैपाऽष्टमी स्त च्छिवशर्मदा नः ।।४।। इत्यं तीर्थकृतामबाध्यवचसा छिन्नाष्टदुष्कर्मणां पूता ज्ञानवतां सुराचनभृतां जन्मादिकल्याणकैः । उद्यद्भक्तिजुषां विशुद्धतपसां सत्तीर्थयात्रादिषु श्रेयःश्रीततिमातनोतु नितरां सैषाऽष्टमी नस्तिथिः ॥५॥

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80