Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 71
________________ (8) माघार्जुने श्रीविमलस्य दीक्षाऽभिनन्दनो राधसिते च्युतश्च । च्युतः शुचौ कृष्णदले वृषाङ्कः सा नश्चतुर्थी शिवतातयेऽस्तु ॥२॥ दूरीकृत्य चतुष्कषायनिचयं संज्ञाचतुष्कागडं छित्वा घातिचतुष्टयीं च विमला या नाशयित्वाऽङ्गिनाम् । दत्ते देवचतुर्निकायमहितां मुक्तिं च भद्रङ्करां श्रेयः श्रीततिमातनोतु नितरां सा नश्चतुर्थी तिथिः ॥३॥ ॥ अथ पञ्चमीचैत्यवन्दनम् ॥ ५ ॥ श्रेयः श्रियां दानविधानदक्षा कल्याणकैस्तीर्थकृतां वलंक्षा । या पापहर्त्री भविनां सुकृत्यैः सा पञ्चमी नस्तिथिरस्तु भत्यै ॥१॥ चैत्रार्जुनेऽभूद जितस्य यस्यां श्रीसम्भवाऽनन्तजितोश्च मोक्षः । चन्द्रप्रभो मध्वसिते च्युतश्च सा पञ्चमी नस्तिथिरस्तु भूत्यै ॥२॥ यत्राऽभवन्माधवकृष्णपक्षे श्री कुन्थुनाथस्य जिनस्य दीक्षा | ज्येष्ठार्जुने धर्मजिनस्य मुक्तिः सा पञ्चमी नस्तिथिरस्तु भूत्यै ॥३॥ नभःसिते यत्र च नेमिजन्मोजें सम्भवः श्यामदले जिनोऽभूत् । जन्माऽऽप मार्गे सुविविश्च कृष्णे सा पञ्चमी नस्तिथिरस्तु भूत्यै ॥ ४ ॥

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80